Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 52
________________ ४० स्यार्थप्रकाशे तत्र प्रतीयत एव । तस्यामेव तण्डुलादेः स्वकर्मतानिरूप कपाकविषयत्वसंसर्गेण, चैत्रकतु कत्वस्य चान्वय इति सर्व त्राख्यातार्थस्यैव विशेष्यतया भानम् । तथा च भावनाविशेष्य कान्वयबोधं प्रति आख्यातजन्योपस्थितित्वेनैकमेव कारणत्वम् तादृशी व्युत्पत्तिरप्टोकैवेति न न्यायमतवद्गौरवं किन्तु महलाघवम् । धात्वर्थस्यापि भावनायामेवान्वयाद् भावनान्वितत्वस्यैव तन्मते कारकत्वात् " गुणानाञ्च परात्वात् परस्परमसम्बन्धः समत्वात्स्यात्” इति न्यायेन कारकाणामपि परस्परमत्वयायोग्यत्वेन भावनायामन्वयस्यैवीचित्यम् । ननु तन्मते फलव्यापारोभयवा चित्वस्यैव सक धातुत्वात् तदाश्रयस्यैव कर्मकारकान्वययोग्यत्वात् प्रकृते भावनामात्रवाचकस्याख्यातस्य सकर्मत्वाभावात्, तत्र कथं कर्मकारकस्यान्वय इति चेन्मैवम्; तिङ्प्रत्ययः (आख्यातम् ) तावदुत्पत्त्यनुकूलव्यापारे उत्पत्तिव्य पारयोर्वाऽर्थयोर्वर्तते ; एकपदार्थयोरत्वयबोधार्थमनुकूलत्वस्य संसर्गविधयैव लाभसंभवात् । अत एवोत्पत्तिपरिच्छिन्न व्यापारवाचिनः करोत्यादयः ( पचतीत्यादौ पार्क करोति - पाकमुत्पादयतीत्यादिरूपेण विवरणदर्शनात् ) आख्यातं विवृण्वते । तथा वित्रियमाणे आख्यातार्थ उत्पत्तौ तदेकदेशीभूतायाम् आधाराधेयभावेनान्वितः पाको धात्वर्ण एव कर्म । अत एव विवरणवाक्ये ( पाकं करोतीत्यत्र ) पाकपदात् कर्मत्वानुवादिका द्वितीया दृश्यते । यत्र चौदनं पचतीत्यत्राख्यातार्थीभूतायामुत्पत्ती अन्वययोग्यमोदनादिवृत्तित्वं ( कर्मत्वं ) द्वितीययोपात्तं, तत्र नाम्नामर्थं एवं कर्म ; धात्वर्थस्य ( पाकस्य ) तत्र करणत्वेनौदनोत्पत्तावन्वयः । पाकेनोदनं भावयतीति विवरणं तादृशवाक्यस्य बोध्यम् । आख्यातस्य फलव्यापारोभयवाचकत्वादेव, नित्याग्निहोत्रस्य - फलाजनकत्वेऽपि अग्निहोत्रं जुहोतीत्यादी यत्र फलान्तरं न भावनान्वययोग्यं तत्र नित्यतया प्राप्तकर्तव्यताको जुहोतिधात्वर्थ एव भाब्यतथा कर्म । अत एव जुहोतिसमानाधिकरणे कर्मनामधेयेऽग्निहोत्रपदे द्वितीया; यथा नीलं घटमानयेत्यादो घटविशेषणे नीलपदे सा । तथा चाग्निहोत्राभिन्नं होमं भावयतीति वाक्यार्थं बोधः । कायस्थले तु स्वर्गादिभाव्यं विना निष्फलत्वेन विध्युपात्तप्रवर्तनायाः अन्वयासम्भवः तत्र क्रियाया न कर्मत्वेनान्योऽपि तु करणत्वेन कर्मावरुद्ध कर्मान्तरस्थानाकांक्षितत्वात् । अत एव सोमेन यजेत स्वर्गकामः इत्यत्र स्वर्गस्वरूपेण स्वर्गकामपदोपात्तेनाक्षिप्तेन वा भाव्येन ) कर्मणा ) सकर्मकायां भावनायां यागादेर्धात्वर्थस्य करणतयाऽन्वयः तथा च स्वर्गवृत्तेर्यागकरणिकाया उत्पत्तेरनुकूलो व्यापारः प्रवर्तनाविषय इत्येव तत्र वाक्यार्थः । अत एव यजेतेत्यस्य यागेन स्वर्गं भावयेदिति विवरण दृश्यत इति तन्मतदिग्दर्शनम् । (पुनर्द्वितीयार्थ कर्मत्वे ते पस्तत्परिहारश्च ) स्यादेतत् मतत्रयेऽपि पूर्वदर्शित - तार्किकशाब्दिकमीमांसकमतत्रयेऽपि - घटं जानातीत्यादावावरणभङ्गः, प्राकट्यं, विषयतास्वरूपं वा फलम् धातुवाच्यम् । तत्र यद्यपि विषयताया अजन्यत्वेन घात्वर्थ व्यापारप्रयोज्यत्वं न संभवति तथापि धात्वर्थे विशेषणतया भासमानत्वमेव फलत्वमिति परिभाषणात्, तादृशफलाश्रयत्वमाश्रित्य कर्मसंज्ञाप्रवृत्तेः । एवं तत्र निर्वाहऽपि आत्मानमात्मना जानातीत्यादी व्यापारफलयोस्तुल्याधिकरणत्वात् कथमेकत्रैव कर्तृत्वं कर्मत्वञ्च तत्र परया कर्म - संज्ञया कर्तुं संज्ञायाः कुतो न बाघः, कथं वा तत्र क्रियायाः परसमवेतत्वम् । यत्त्ववच्छेदकभेदेन कस्यापि कर्तृत्वं कर्मत्वञ्चेत्युभयमपि न विरुध्यत इति तन्न; भेदाभेदवादोपगमे चैत्रश्चत्रं गच्छतीत्यादिप्रयोगापत्तेस्तथापि दुर्वारत्वात् इतिचेत्, सत्यम्, तादृशस्थले द्वितीयार्थभेदांशस्य त्यागात्भागत्यागलक्षणया-आधेयत्वमाश्रयत्वमात्रं वा द्वितीयार्थ इति स्वीक्रियते । यद्यपि त्वमेव त्वां जानासीत्यादी - आत्मानमात्मना जानासीत्यादी वा विषयतास्वरूपफलगाम्याधेयत्वमात्रं द्वितीयया प्रतिपादयितुं न शक्यते, तस्याः पुष्पवन्तादिपदवत् एकयोक्त्या फलगाम्याधेयत्वं कर्त्रादिगामिभेदं च युगपदेवाभिधातु सामर्थ्यात् तथापि भेदांशपरिहारेणाधेयत्वमात्रे

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216