________________
४०
स्यार्थप्रकाशे
तत्र प्रतीयत एव । तस्यामेव तण्डुलादेः स्वकर्मतानिरूप कपाकविषयत्वसंसर्गेण, चैत्रकतु कत्वस्य चान्वय इति सर्व त्राख्यातार्थस्यैव विशेष्यतया भानम् । तथा च भावनाविशेष्य कान्वयबोधं प्रति आख्यातजन्योपस्थितित्वेनैकमेव कारणत्वम् तादृशी व्युत्पत्तिरप्टोकैवेति न न्यायमतवद्गौरवं किन्तु महलाघवम् । धात्वर्थस्यापि भावनायामेवान्वयाद् भावनान्वितत्वस्यैव तन्मते कारकत्वात् " गुणानाञ्च परात्वात् परस्परमसम्बन्धः समत्वात्स्यात्” इति न्यायेन कारकाणामपि परस्परमत्वयायोग्यत्वेन भावनायामन्वयस्यैवीचित्यम् । ननु तन्मते फलव्यापारोभयवा चित्वस्यैव सक
धातुत्वात् तदाश्रयस्यैव कर्मकारकान्वययोग्यत्वात् प्रकृते भावनामात्रवाचकस्याख्यातस्य सकर्मत्वाभावात्, तत्र कथं कर्मकारकस्यान्वय इति चेन्मैवम्; तिङ्प्रत्ययः (आख्यातम् ) तावदुत्पत्त्यनुकूलव्यापारे उत्पत्तिव्य पारयोर्वाऽर्थयोर्वर्तते ; एकपदार्थयोरत्वयबोधार्थमनुकूलत्वस्य संसर्गविधयैव लाभसंभवात् । अत एवोत्पत्तिपरिच्छिन्न व्यापारवाचिनः करोत्यादयः ( पचतीत्यादौ पार्क करोति - पाकमुत्पादयतीत्यादिरूपेण विवरणदर्शनात् ) आख्यातं विवृण्वते । तथा वित्रियमाणे आख्यातार्थ उत्पत्तौ तदेकदेशीभूतायाम् आधाराधेयभावेनान्वितः पाको धात्वर्ण एव कर्म । अत एव विवरणवाक्ये ( पाकं करोतीत्यत्र ) पाकपदात् कर्मत्वानुवादिका द्वितीया दृश्यते । यत्र चौदनं पचतीत्यत्राख्यातार्थीभूतायामुत्पत्ती अन्वययोग्यमोदनादिवृत्तित्वं ( कर्मत्वं ) द्वितीययोपात्तं, तत्र नाम्नामर्थं एवं कर्म ; धात्वर्थस्य ( पाकस्य ) तत्र करणत्वेनौदनोत्पत्तावन्वयः । पाकेनोदनं भावयतीति विवरणं तादृशवाक्यस्य बोध्यम् । आख्यातस्य फलव्यापारोभयवाचकत्वादेव, नित्याग्निहोत्रस्य - फलाजनकत्वेऽपि अग्निहोत्रं जुहोतीत्यादी यत्र फलान्तरं न भावनान्वययोग्यं तत्र नित्यतया प्राप्तकर्तव्यताको जुहोतिधात्वर्थ एव भाब्यतथा कर्म । अत एव जुहोतिसमानाधिकरणे कर्मनामधेयेऽग्निहोत्रपदे द्वितीया; यथा नीलं घटमानयेत्यादो घटविशेषणे नीलपदे सा । तथा चाग्निहोत्राभिन्नं होमं भावयतीति वाक्यार्थं
बोधः । कायस्थले तु स्वर्गादिभाव्यं विना निष्फलत्वेन विध्युपात्तप्रवर्तनायाः अन्वयासम्भवः तत्र क्रियाया न कर्मत्वेनान्योऽपि तु करणत्वेन कर्मावरुद्ध कर्मान्तरस्थानाकांक्षितत्वात् । अत एव सोमेन यजेत स्वर्गकामः इत्यत्र स्वर्गस्वरूपेण स्वर्गकामपदोपात्तेनाक्षिप्तेन वा भाव्येन ) कर्मणा ) सकर्मकायां भावनायां यागादेर्धात्वर्थस्य करणतयाऽन्वयः तथा च स्वर्गवृत्तेर्यागकरणिकाया उत्पत्तेरनुकूलो व्यापारः प्रवर्तनाविषय इत्येव तत्र वाक्यार्थः । अत एव यजेतेत्यस्य यागेन स्वर्गं भावयेदिति विवरण दृश्यत इति तन्मतदिग्दर्शनम् ।
(पुनर्द्वितीयार्थ कर्मत्वे ते पस्तत्परिहारश्च )
स्यादेतत् मतत्रयेऽपि पूर्वदर्शित - तार्किकशाब्दिकमीमांसकमतत्रयेऽपि - घटं जानातीत्यादावावरणभङ्गः, प्राकट्यं, विषयतास्वरूपं वा फलम् धातुवाच्यम् । तत्र यद्यपि विषयताया अजन्यत्वेन घात्वर्थ व्यापारप्रयोज्यत्वं न संभवति तथापि धात्वर्थे विशेषणतया भासमानत्वमेव फलत्वमिति परिभाषणात्, तादृशफलाश्रयत्वमाश्रित्य कर्मसंज्ञाप्रवृत्तेः । एवं तत्र निर्वाहऽपि आत्मानमात्मना जानातीत्यादी व्यापारफलयोस्तुल्याधिकरणत्वात् कथमेकत्रैव कर्तृत्वं कर्मत्वञ्च तत्र परया कर्म - संज्ञया कर्तुं संज्ञायाः कुतो न बाघः, कथं वा तत्र क्रियायाः परसमवेतत्वम् । यत्त्ववच्छेदकभेदेन कस्यापि कर्तृत्वं कर्मत्वञ्चेत्युभयमपि न विरुध्यत इति तन्न; भेदाभेदवादोपगमे चैत्रश्चत्रं गच्छतीत्यादिप्रयोगापत्तेस्तथापि दुर्वारत्वात् इतिचेत्, सत्यम्, तादृशस्थले द्वितीयार्थभेदांशस्य त्यागात्भागत्यागलक्षणया-आधेयत्वमाश्रयत्वमात्रं वा द्वितीयार्थ इति स्वीक्रियते । यद्यपि त्वमेव त्वां जानासीत्यादी - आत्मानमात्मना जानासीत्यादी वा विषयतास्वरूपफलगाम्याधेयत्वमात्रं द्वितीयया प्रतिपादयितुं न शक्यते, तस्याः पुष्पवन्तादिपदवत् एकयोक्त्या फलगाम्याधेयत्वं कर्त्रादिगामिभेदं च युगपदेवाभिधातु सामर्थ्यात् तथापि भेदांशपरिहारेणाधेयत्वमात्रे