Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 173
________________ वृत्तस्य च विशेषणयोगो नेति वृत्तिकारोक्तेः तथा च त्याद्यन्तकर्मणि तद्वेत्यधीते ( ६१२।११७ ) इति निर्देशादेव षष्ठीप्रसक्तिविरहात् परिशेषात् कृदन्तकमंण्टोव भविष्यतीति कृत इति व्यर्थमेवेत्याहुः, तन्न सविशेषणानामिति नियमस्यावश्यसाकाङ्क्षातिरिक्त्तविषयत्वेन कृतेत्यस्य च कर्मणाऽवश्य साकाङ्क्षत्वेन कटमित्यनेन सम्बन्धे बाधकाभावात् । तथा च कृतपूर्वोति सिद्धयनन्तरं कर्मण आकाङ्क्षायां वतस्य कर्मावाचकत्वेन कर्मणो गौणत्व- ( अनुक्तत्व ) सत्त्वात् कटमिति तेन सम्बध्यत एवेति तत्र षष्ठीं वारयितुं कृतइत्यावश्यकभेव । भाट्टास्तु- कारकाणां सर्वत्र प्रत्ययार्थभावनायामेवान्वयः न तु धात्वर्थे, 'गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' इति न्यायात् 1 कर्मभावप्रत्ययान्ययकृतोऽपि भावनाममिदधत्यन्यथा कारकान्वयानुपपत्तेः । कर्तृकृतां तु शक्त्या भक्त्या वा भावनाबोधकत्वमिति ग्रामं गतवानित्यादो कूदर्थभावनायां ग्रामकर्मत्वस्येव कृतपूर्वीकटमित्यादी कर्तृवाचकतद्धितेनिप्रत्ययार्थभावनायां कटकर्मत्वस्यान्वयः कदर्थभावनाकर्मणो निष्ठया ( क्तान्तेना) भिधानेऽपि तद्धितार्थभावनाकर्मणोऽनभिधानात्र द्वितीयानुपपत्तिः । तथा च कृदुपात्तभावनायाः कर्मण्येव षष्ठी न तु तद्धितार्थ भावनायाः कर्मणीत्यवेदयितुं सूत्रे कृत इत्युक्तम् । यदाह हरिः ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् । अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता ।। " इति । यथा ग्रामं गतवान् इत्यादी भावनावता कर्तृ संज्ञकेन कर्मणां सम्वन्धो भवति तथा प्रधानकारकान्वयिनी किया 'कृतपूर्वी' इत्यादिपदप्रतिपाद्या भावनाकर्मणा सम्बध्यत इति तदर्थं इति वदन्ति । तच्चिन्त्यम्, कृतशब्दार्थस्य करणकर्मणः तद्धितार्थभावनायामन्वये तटमिति द्वितीयान्तार्थस्यानन्वयापत्तेः, एककर्मावरुद्धायां कर्मान्तरस्थानाकाङ्क्षित प्रकाशः १६१ त्वात् । किं च भावनायामेव कारकान्वय इति न सम्भवति ओदनस्य पाक इत्यादी षष्ठ्यर्थ कर्मणोऽनन्वयप्रसङ्गात्, भावकृतां भावनाबोधकत्वविरहात् । तथात्वाभ्युपगमे तु कर्मकर्तृ भावनायां कर्मकराक्षेपेऽनभिहिताधिकारीययोः कर्म -- कर्तृ षष्ठ्योरनुपपत्तिप्रसङ्गात् । न चौदनस्य पाकः, चैत्रस्य पाक इत्यादौ शेषषष्ठीय कृद्योगषष्ठी कर्मकतु कृत्सु चोपयत इति वाच्यम्, नोभयोर्हेतो: ( २१२१८९ ) इत्यस्य निर्विषयत्वापत्तेः । न च करणादिकृत् तद्धितविषय इति वाच्यम्, करणादिकृतोऽपि भावनाबोधकत्वस्य विरहात् कर्तृकर्मणोरन्वयाप्रसक्त्या निर्विषयत्वतादवस्थ्यात् । करणादिभावनाया अतिरिक्ताया अभ्युपगमे तत्रापि कर्तृकर्मणोरन्वयाऽसम्भबातू निर्विषयत्वतादवस्थ्यात् । यदि 'गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' इति न्यायेन भावनायां कारकत्वेनान्विते धात्वर्थे न कारकान्वय इत्येवाभ्युपेयते, न तु घञ्ञाद्यन्तेन प्रधानवदुपस्थापिते तस्मिन्निति, तदा भवतु भावकदन्तायें षष्ठ्यर्थ कारकान्वयः तावता न नः कापि क्षतिरिति । मनु कृतपूर्वी कटमित्यादौ कृतशब्दार्थस्य करणकर्मण-स्तद्धितार्थंभावनायामनन्वयेऽसामर्थ्यात् वृत्तिर्नोपपद्य तान्वये तु तेनैव कर्माकाङ्क्षाविच्छितेः कटादेः कर्मतया तत्रान्वयासम्भव:, ततश्च सूत्रे कृत इति व्यर्थं कर्मणोऽभिहितत्वात् षष्ठ्यप्रसक्तेः, अत्राऽपि कटमिति द्वितीयाऽनुपपत्तिश्चेति चेत्- अत्र शाब्दिका :- कृतमिति भावक्तान्तमविवक्षित-कर्म कम्, पूर्वशब्देन समासमासाद्य कतु तद्धितस्य प्रकृतिर्भवतीति कृतपूर्वीशब्दः सिद्धः प्राक्कालिककरणकर्तेति वोधमर्जयति, तत्र भाववतान्तकृगर्थे कटकर्मत्वस्यान्वय इति वदन्ति, अत्र - म० म० श्री गोकुलनाथोपाध्याया:- नेदं युक्तम्, कर्मायिनः कृगो भावे प्रत्ययस्य दौर्लभ्यात्, अन्यथा भावप्रत्ययान्तम्यर्थे ग्रामकर्मत्वस्यान्वयसम्भवेन गतं ग्रामं, गम्यते वा ग्रामम् इति प्रयोगापत्तेः । अविवक्षितकर्मत्वे कदापि कर्मत्वान्वयस्य, विवक्षितकर्मत्वे व भावे प्रत्यय

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216