Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्यार्थप्रकाशे
स्यानुपपत्तेरवश्याभ्युपेयत्वात् । कर्मप्रत्ययान्तकृत पदस्य विवक्षायां गुणभूतयाऽपि क्रियया कारकाणां सम्वन्धस्य कट वृत्यभ्युपगमे तु कर्मणि षष्ठी प्रसक्तेद्वितीयोत्पत्तेश्चासम्भव एव वर्तते । किञ्च कुगोऽर्थे कर्मान्दयोपगमे कथं कृत इत्यनेन तद्वारणम्, तस्मात् कृतपूर्वीत्वत्र कृतादिपदार्थपरित्यागेन तद्धितस्य प्राक्कालिकभावनाबानर्थः । यदि न पक्वपूर्वी सूपान् अधीतपूर्वी वेदान् इत्यादेः पर्यायत्वमा - शंक्यते तदा पाकादिभावनावानेव तद्धितार्थः तद्धितार्थेक - देशे पाकादो षष्ठ्यर्थकर्मत्वान्वयवारणाय सूत्रे कृत इत्युपातम् ।
कृतवानित्यादी दर्शनात्, अत्रापि कटकर्मत्वान्वयः, तत्र कर्मणि षष्ठीवारणाय सूत्रे कृत इति समुपात्तम् । न च क्तस्य कृत्त्वात् कृदुपादानेऽपि षष्ठी प्रसक्तिदु वरिवेति वाच्यम्, सूत्रे कृत्पदस्य प्रत्ययान्तराप्रकृतिभूतस्यैवोपादनात् कृतपूर्वीशब्दस्य तद्धितप्रकृतितया क्तान्तकृतशब्दस्य तद्धितप्रकृतित्वात् । तण्डुलस्य पाचकतम इत्यादी षष्ठ्या असाधुत्वमिष्टमेव अत एव तण्डुलं पाचकतम इत्यादिप्रयोगं कालापाः साधु ं मन्यन्ते इत्याहुः; तच्चिन्त्यम्, विग्रहवाक्योऽविवक्षितकर्मकस्य वृत्तिवाक्यो सकर्मकत्वस्यान्यत्रादुष्टचरत्वात् । शोभनं पचनमत्रेति विग्रहेऽविवक्षित कर्म तथा भावे अनप्रत्यये पचनशब्दस्य समासतद्वितयोः कर्मविवक्षायां तण्डुलं शोभनपचनवद्गृहमिति प्रयोगापत्तेः । यदपि प्रत्ययान्तरा प्रकृतित्वं कृतो. विशेषणमुक्तं तदपि न शोभनम्, तण्डुलं पाकतर:, तण्डुलं पाकवद्गृहमिति प्रयोगापतेश्च ।
१६२
ननु विग्रहे समासे च विवक्षितस्यापि निष्ठार्थस्य कर्तृतद्वितोत्पत्तौ सत्यां निष्ठाया अविवक्षाया निरर्थकत्वं युज्यते न तु धातोः, अतो धात्वर्थं तदुपहिततद्धितार्थ भावनायां वा कर्मान्वयः सम्भवति तावतैव कृत इत्युपादानस्य सार्थक्यम्, किं तद्धितानां पाकादिनानाभावनावदर्थ कतया नानार्थताम्युपगमेनेति चेत्, भंवम्, यतो निष्ठाया निरर्थंकत्वाभ्युपगमेऽपि धातोः कृदन्तत्वमक्षतमिति षष्ठीप्रसक्तेदुर्वारतया सूत्रे कृत इत्युपादनमनर्थकं स्यादिति तत्सामर्थ्यात् क्तान्तसमुदायस्यैव निरर्थकत्वमवसीयत इति तद्धितेनप्रत्ययस्य नानार्थत्वमनन्यगतिकतयाऽभ्युपेयते क्तान्तन्तु प्रकरणादिवत् तत्तद्भावनावन्तमुपस्थापयति, तेन पक्वपूर्वीत्यत्र बाकानुकूलभावनावान्, कृतपूर्वीत्यत्र करणानुकूलभावनावान् प्रतीयते, तत्र तद्धितार्थैकदेशे पाके भावनाया अथवा ओदनकर्मत्वस्य करवे भावनायां वा कटकर्मत्वस्थ विवक्षाया मोदनपदात् कटपदाच्च षष्ठीं वारयति सूत्रे कृत इति पदं, द्वितीया तु सामान्यतो विहिता भवत्येवेति पक्व - पूर्बी ओदनं, कृतपूर्वी कटमित्यादौ कर्मणि न षष्ठी किन्तु द्वितीयैवेति पदवाक्यरत्नाकरे प्राहुः ।
शाब्दिकनव्यास्तु- कृतं पूर्वमनेनेति विग्रहेऽविवक्षित - कर्म तथा भावे क्तप्रत्यये कृते कर्मसापेक्षत्वाभावात् समासतद्धितो भवत एष, तथा च कृतपूर्वोत्ययं 'पूर्वं कृतवान्' इत्यनेन समानार्थकः सम्पद्यते, तद्धिते सति वृत्तिभेदात् कर्मणो
वस्तुतस्तु भावप्रत्ययमात्रस्याकर्म केभ्यो न विधानम्, 'ओदनस्य भुक्तम्' तण्डुलस्य पाक इत्यादी षष्ठ्यर्थकर्मत्वस्यानन्वयप्रसङ्गात् । किन्तु भावे आख्यातस्यैवाकर्म केभ्यो विधानम् । न चैवमोदनं भुक्तम्, तण्डुलं पाकः इत्यादिकः कर्म द्वितीयासमभिव्याहृतः प्रयोगः स्यादिति वाच्यम्, कृतः षष्ठ्या द्वितीयाऽपवादात् । एतदर्थमेव सूत्रे कृत इत्युपादानम् । अन्यथा सामान्यतः कर्मणि द्वितीयाषष्ठ्योरुभयो विधाने वैकल्पिकतापत्त ेः । नन्वेवं कृतपूर्वीकटमित्यादी निष्ठा स्वरूप कृद्योगस्यावैकल्यात् कर्मणि षष्ठीप्रसङ्गो द्वितीयापवादप्रसङ्गश्च । न च क्तयोरसदाधारे (२।२।९१) इति क्तयोर्योगे षष्ठीनिषेधान्नैवमिति वाच्यम्, वा क्लीबे ( २१२१९२ ) इति सूत्रेण भावे क्तस्य योगे षष्ठीप्रतिप्रसवात्; इति चेन्मैवम्, सूत्रे कृत इत्यत्र कृत्पदस्य विशेषपरत्वात् । तथा हि कृत्प्रकृतिकत्वेन विहितस्य प्रत्ययस्य प्रकृतिभूतो यः कृत् तस्यैव कर्मणि षष्ठीविधानम्, इन्प्रत्ययविधाने पूर्वशब्दस्य सपूर्वकत्वं क्तान्तशब्दपूर्वकत्वमेव,

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216