Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 187
________________ सप्तम्यर्थप्रकाशः कालिकतया गोपीन्यथायामन्वगेऽपि प्रयोज्य प्रयोजकभावेनाव्यत्वयः || एवं सूत्रे भावलक्षणमित्यत्र भाव: स्वभाव: स्वरूपमिति यावत्, तथा च स्वरूपस्य लक्षणं विशिष्टतया ज्ञापकमित्यपि सूत्रार्थः । अत एव गुणान्यत्वे सति जातेः सत्वाद्वा इत्यादी न सप्तम्यनुपपत्तिः, गुणान्यत्व सामानाधिकरण्येत विशेषणेन जातेः सत्तामा वा विशिष्टतया ज्ञापनम् इति सप्तमी साधुरेव । अत्र शत्रन्तास्धात्वर्षैस्य वर्तमानकालविशिष्टसत्ता विशिष्टस्य तादात्म्येन गुणान्यत्वा दामन्वयात् गुणान्यत्वादिशब्दानन्तरसप्तम्या अधिकरणवृत्तित्वमेवार्थः तच्च जातौ सतादौ वाऽन्वेति । वर्तमानकालवृत्तिसत्ताविशिष्टस्य तादात्म्याश्वयवस्थादव गुणान्यस्त्वादिकालवत्तित्वस्यायंत एव लाभात्, व कालबुसिरवं सप्तम्यर्थः इत्यधिकरणवृत्तित्वस्वरूपसप्तम्यर्थलाभावमेव सतीति शत्रन्तोपादानं, न तु तदर्थस्य हेतुतावच्छेदकेऽनुप्रवेशः । सामानाधिकरण्येन गुणान्यत्वविशिष्टजातित्वादेरेव तथात्वात् इति दर्शितप्रयोगेऽपि सप्तम्युपपत्तिरिति । यत्तु "शरदि पुष्यन्ति सप्तन्छा" इत्यादावुत्पत्तिरूपस्य ज्ञापनार्थमथवा पुष्पोत्पत्तिमत्वविशिष्टसप्सच्छदत्वावच्छेदेन शरदादिवृत्तित्वस्यान्वयार्थं 'कालभावयोः, इति कुमारसूत्रेण काले सप्तम्या विध्यन्तरम्, अन्यथा शरदि पुष्प्यन्ति पलोशा इत्यादि प्रयोगप्रसङ्गः, शरद्वृत्तित्वस्य पलाशे पुष्पे वा सध्वादिति कालापे यक्तम्, तदसत् पुष्ट्यर्थे पुष्पोत्पत्ती शरद्वृत्तित्वस्यान्वयोपगमादेव दर्शितप्रयोगवारणसम्भवात्, कारकान्यसप्तम्यस्य क्रियायां साक्षादम्बयोपगमात् शुक्तो रजतत्वं जानातीत्यादी विशेष्यतासंसर्गावच्छिन्नस्य शुक्त्याधेयत्वादेरिव ज्ञानावी, तथा च न काप्यनुपपत्तिरिति काले सप्तमीविध्यन्तरमप्रामाणिकमेव । “शरदि पुष्प्यन्ति सप्तच्छदा" इत्यत्र पुष्प्यतेः पुष्पोत्पत्तिरर्थः, तेः पुष्पधटितपरम्परासंसर्गा - वच्छिन्नमाषेयत्वमर्थः, सप्तम्याः कालिकसम्बन्धावच्छिन्नाधेयत्वमर्थः । तथा च शरवृत्तेः पुष्पोत्पतेरेवाश्रयाः १७५ सप्तच्छदा इति बोधः । एवं " शरदि पुष्प्यन्ति पद्मिन्य" इत्यादावप्यन्वयो बोध्यः । न च पुष्प्यतेः पुष्पमयः, तेः आश्रयत्वमर्थः अत एव सप्तम्या उत्पत्तिरथं इति वाच्यम्, तथा सति माल्यं गुणो वा पुष्प्यतीति प्रयोगापत्त ेः । न च पुष्यतेः पुष्पं तेः उत्पत्तिरर्थः उत्पत्त ेः परम्परया प्रथमार्थे, सप्तम्यर्थस्याधे यत्वस्योत्पत्तावन्वय इति वाच्यम्, स्याद्यर्थत्याद्यर्थयोः परम्परान्वयस्य सर्वत्रानभ्युपेतत्वात् त्याद्यर्थस्य प्रथमान्तार्थे साक्षादेवान्वयस्य व्युत्पन्नत्वात् अन्यथा ज्ञानं सुखं द्वेषो वा पचतीति प्रयोगप्रसङ्गात् त्याद्यर्थकृतेः सामानाधिकरण्येन ज्ञानादेरन्वयसम्भवादिति पूर्वोक्तरीतिः श्र ेयसी इत्यादि प्रपञ्चयन्ति ॥ अत्र लक्षकक्रियायाः प्रयोग एव लक्षकानाम्नः सप्तमी भवतीति न नियमः किन्तु गम्यमानायामपि क्रियायों सप्तमी भवतीति प्रतिपादितं बृहद्वृत्तौ - गम्यमानेनापि भावेन भावलक्षणे भवतीत्यादिना आम्रषु कलायमात्रेषु गतः पक्वेष्वागत इति । आम्राणां तत्तत्प्रसिद्धवस्तुपरिमाणेन तादृशावस्थाविशिष्टः कालो लक्ष्यते । तस्मिन्काले प आम्राणां या स्थितिर्जायते तस्य तस्यां स गतः, यश्च तेषां पाककालो नियतस्तत्र समागत इत्यर्थप्रतीतेः कलायमात्रेषु इत्यतः परं जातेष्विति पदमध्याह्रियते । सदाह अत्र जातेष्विति गम्यत इति । तथा च गम्यमाना जननलक्षणक्रिया गमनस्य लक्षिका भवतीति न लक्ष्यलक्षणभावानुपपत्तिः क्रिययोः । गम्यमानक्रियाया अपि विभक्तिनिमित्तत्वे विप्रतिपन्नं प्रति दृष्टान्तेनोक्तमर्थं द्रढयतियथा वृक्षे शाखा प्रामे चैत्र इति । अत्र का क्रिया गम्यमानेत्याह- भवति वसति चेत्याधारनिमित्तं भवतीति । अयमाशयः कर्तृ कर्मद्वारा क्रियाया आश्रयस्यैवाधारत्वमिति क्रियायां प्रयोगाभावेऽपि गम्यमानां भवनादिक्रियामादायैव तदाश्रयस्य वृक्षादेरधिकरणत्वमिति सप्तमी सिध्यति इति । अत्र प्रकरणे अर्हाणां कन्त्वेऽनर्हाणामकतृ त्वे तद्वै

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216