Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 193
________________ सप्तम्यर्थप्रकाशः १८१ गिमेश्वर्यविवर्त्तमध्ये ! लोकेशलो केशयलोकमध्ये । तिर्यञ्चमप्यञ्च भूषानभिज्ञरसज्ञतोपज्ञसमज्ञमज्ञम्" इति नैषधप्रयोगे “लोकेशलो केशयलोकमध्ये" इति पदे समास उपपद्यते । अन्यया निर्धारणषष्ठ्याः समासनिषेधेन स न स्यात् । शेषे षष्ठीस्वीकारे तु समासो निर्बाधः । एवं नरमध्ये क्षत्रियः शूर इत्यादावपि समासोपपत्तिः २२/१०९ ।। तदिदं निर्धारण जात्या, गुणेन, क्रिययाऽन्येन वा धर्मेण भवति । तत्र जात्या नराणां नरेषु वा क्षत्रियः शूरतम इति । गुणेन यथा- गवां गोषु वा कृष्णा सम्पन्नक्षीरतमा क्रियया यथा- गच्छतां गच्छत्सु वा धावन्तः शीघ्रतमाः अन्येन धर्मेण यथा कुरु कुरुषु वा युधिष्ठिरः श्र ेष्ठतमः, इत्याद्य दाहरणं दत्तम् । यत्र प्रकृत्यर्थतावच्छेदकनिधार्यतावच्छेदकर्योजात्यं तत्र परस्परव्यभिचारितवान्वयितावच्छेदकत्वे तन्त्रम्, अतो द्रव्याणां कृष्णा सम्पन्नक्षीरतमेत्यादिको न प्रयोगः कृष्णानां गौः सम्पन्न क्षीरतमा, द्विजातीनां क्षत्रियः शूरतम इत्यादिप्रयोगस्तु समुपपद्यते । हरीणां हरिपु वा शक्रः सुरश्रष्ठ इत्यादी हरिपदार्थतावच्छेदकं सूर्यत्वविष्णुत्वेन्द्र त्वादिकं नानाविधमेव प्रकृत्यर्थतावच्छेकं तत्र शक्रान्य प्रकृत्यर्थनिष्ठस्य भेदस्य प्रतियोगित्वेऽन्वयितावच्छेदकीभूतशऋत्वावच्छिन्ने शऋत्वसामानाधिकरण्यान्वयसम्भवात्, द्वन्द्वस्थल इवशेषेऽपि नानुपपत्तिः । " द्वन्द्वः सामासिकस्य च' इति गीतावाक्यै समासत्वस्यानुगतधर्मतया जातित्वात् जातिगतत्वविवक्षायामेकवचनमिति नानुपपत्तिः । जात्याख्यायामैकवचनमिति नियमे अनुगतधर्मस्यैव जातित्वेनोपादानम्, अत एव 'शरीरमाद्यं खलु धर्मसाधन' मिति सङ्गच्छते । यतः शरीरत्वं न वैशेषिकसंमता जातिः, नवैकमात्रशरीरं धर्मसाधनम्, इत्यनुगतशरीरत्वधर्म स्वरूप जातिगतै कत्वविव क्षायामेकवचनोपपत्तिः । " नक्षत्राणामहं शशी' इति गीता - वाक्ये नक्षत्रपदस्य राशिसहितनक्षत्रसमुदाये लक्षणायां निर्धारणे षष्ठी, अन्यथा स्वस्वामिभावरूप शेषे षष्ठी । 'वित्तेशो यक्षरक्षसाम्' इति गीतावाक्येऽपि यदि वित्तशो यक्षस्तहि जले पृथ्वी गन्धवतीत्यादाविव निर्धारणे, अन्यथाशेषे षष्ठीतिबोध्यम् । एवं 'नराणां मध्ये नापितो धूर्त:' इत्यत्र मध्य इत्यव्ययस्य भेदप्रतियोगित्वं समभिव्याहृत पदार्थ - तावच्छेदकसामानाधिकरण्यं चार्थः । षष्ठ्याः भेदान्वयी समभिव्याहृतशब्दार्थतावच्छेदकान्वयी च सम्बन्धोऽर्थः । सम्बस्तु प्रकृते आधेयत्वमेव भेदप्रतियोगित्वमन्वयितावच्छेदकधर्मं समनियतधर्मावच्छिन्नं पूर्ववद्बोध्यम् । अत एव 'ईशा क्रियामध्येssaकाले पञ्चमी च || २|२|११०॥ क्रिययोर्मध्ये स्थितादध्वकालवाचिनो नाम्नः पञ्चम्या सह सप्तमी विधीयते प्रकृतसूत्रेण । इहस्थोऽयमिष्वासः क्रोशात्क्रोशे वा लक्ष्यं विध्यति' इति प्रयोगः । अत्र सप्तमीपञ्चम्योः सम्बन्धसामान्यमर्थः । तद्विवक्षायां षष्ठीं प्राप्तां बाधितुं तयोर्विधानम् । अन्यथा स्थितिक्रियाया आधारत्वं कोशस्य, तत्र स्थितं हि लक्ष्यमिष्वासो विध्यति, एवं कालस्थापि स्वपूर्तिद्वारा भुजिक्रियाया आधारत्वमिति सप्तमी सिद्धव, क्रोशे स्थितं लक्ष्यं, द्वयहे पूर्णे भोजनमित्यर्थावगमात् । एवं निःसृत्येत्यादि यवन्तक्रियाया गम्यमानत्वात् तत्कृतमपायमादायापादनत्वसम्भवात्पञ्चम्यपि सिद्धव । किचैवं, कोशं वाहयित्वा द्वहं वायित्वेत्यादि विवक्षायां द्वितीयापि प्राप्नोतीति तद्वाधनायापि पञ्चमी सप्तम्यो विधानमिति स्वमतं बृहन्न्यासादी प्रपञ्चितम् । अन्ये च वैयाकरणाः क्रिययोर्मध्ये इत्यस्य स्थाने कारकयोमध्य इति सूत्रे पठन्ति तथा च कारकशक्तिद्वयमध्य इत्यर्थं वर्णयन्ति । कारक. शक्तिश्चान्ततः क्रियेवेति साम्यमेवोभयोरपि मतयोः । इहस्थोऽयमिष्वासः क्रोशे क्रोशाद्वा लक्ष्यं विध्यतीत्यादी देशिकापरत्वनिरूपितपरत्वाधिकरणदेशवत्तित्वं सप्तमीपञ्चम्योरर्थः । तच्च कर्मद्वारा धात्वर्थफलेऽन्वेति । विध्यतेरवयवविभागानुकूलो व्यापारोऽर्थः । छिदेस्तु आरम्भकसंयोगानउर्जकावयवविभागानुकूलो व्यापारो ऽर्थः इति न छिदिपर्यायता विध्यतेः । तथा च क्रोशवृत्यपरत्वनिरूपितपरत्वाधिकरणदेशवृत्तिः यः लक्ष्यवृत्तिरवयवविभागः, तदनुकूलव्या

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216