________________
वृत्तस्य च विशेषणयोगो नेति वृत्तिकारोक्तेः तथा च त्याद्यन्तकर्मणि तद्वेत्यधीते ( ६१२।११७ ) इति निर्देशादेव षष्ठीप्रसक्तिविरहात् परिशेषात् कृदन्तकमंण्टोव भविष्यतीति कृत इति व्यर्थमेवेत्याहुः, तन्न सविशेषणानामिति नियमस्यावश्यसाकाङ्क्षातिरिक्त्तविषयत्वेन कृतेत्यस्य च कर्मणाऽवश्य साकाङ्क्षत्वेन कटमित्यनेन सम्बन्धे बाधकाभावात् । तथा च कृतपूर्वोति सिद्धयनन्तरं कर्मण आकाङ्क्षायां वतस्य कर्मावाचकत्वेन कर्मणो गौणत्व- ( अनुक्तत्व ) सत्त्वात् कटमिति तेन सम्बध्यत एवेति तत्र षष्ठीं वारयितुं कृतइत्यावश्यकभेव ।
भाट्टास्तु- कारकाणां सर्वत्र प्रत्ययार्थभावनायामेवान्वयः न तु धात्वर्थे, 'गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' इति न्यायात् 1 कर्मभावप्रत्ययान्ययकृतोऽपि भावनाममिदधत्यन्यथा कारकान्वयानुपपत्तेः । कर्तृकृतां तु शक्त्या भक्त्या वा भावनाबोधकत्वमिति ग्रामं गतवानित्यादो कूदर्थभावनायां ग्रामकर्मत्वस्येव कृतपूर्वीकटमित्यादी कर्तृवाचकतद्धितेनिप्रत्ययार्थभावनायां कटकर्मत्वस्यान्वयः कदर्थभावनाकर्मणो निष्ठया ( क्तान्तेना) भिधानेऽपि तद्धितार्थभावनाकर्मणोऽनभिधानात्र द्वितीयानुपपत्तिः । तथा च कृदुपात्तभावनायाः कर्मण्येव षष्ठी न तु तद्धितार्थ भावनायाः कर्मणीत्यवेदयितुं सूत्रे कृत इत्युक्तम् । यदाह हरिः
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् । अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता ।। " इति ।
यथा ग्रामं गतवान् इत्यादी भावनावता कर्तृ संज्ञकेन कर्मणां सम्वन्धो भवति तथा प्रधानकारकान्वयिनी किया 'कृतपूर्वी' इत्यादिपदप्रतिपाद्या भावनाकर्मणा सम्बध्यत इति तदर्थं इति वदन्ति । तच्चिन्त्यम्, कृतशब्दार्थस्य करणकर्मणः तद्धितार्थभावनायामन्वये तटमिति द्वितीयान्तार्थस्यानन्वयापत्तेः, एककर्मावरुद्धायां कर्मान्तरस्थानाकाङ्क्षित
प्रकाशः
१६१
त्वात् । किं च भावनायामेव कारकान्वय इति न सम्भवति ओदनस्य पाक इत्यादी षष्ठ्यर्थ कर्मणोऽनन्वयप्रसङ्गात्, भावकृतां भावनाबोधकत्वविरहात् । तथात्वाभ्युपगमे तु कर्मकर्तृ भावनायां कर्मकराक्षेपेऽनभिहिताधिकारीययोः कर्म -- कर्तृ षष्ठ्योरनुपपत्तिप्रसङ्गात् । न चौदनस्य पाकः, चैत्रस्य पाक इत्यादौ शेषषष्ठीय कृद्योगषष्ठी कर्मकतु कृत्सु चोपयत इति वाच्यम्, नोभयोर्हेतो: ( २१२१८९ ) इत्यस्य निर्विषयत्वापत्तेः । न च करणादिकृत् तद्धितविषय इति वाच्यम्, करणादिकृतोऽपि भावनाबोधकत्वस्य विरहात् कर्तृकर्मणोरन्वयाप्रसक्त्या निर्विषयत्वतादवस्थ्यात् । करणादिभावनाया अतिरिक्ताया अभ्युपगमे तत्रापि कर्तृकर्मणोरन्वयाऽसम्भबातू निर्विषयत्वतादवस्थ्यात् । यदि 'गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' इति न्यायेन भावनायां कारकत्वेनान्विते धात्वर्थे न कारकान्वय इत्येवाभ्युपेयते, न तु घञ्ञाद्यन्तेन प्रधानवदुपस्थापिते तस्मिन्निति, तदा भवतु भावकदन्तायें षष्ठ्यर्थ कारकान्वयः तावता न नः कापि क्षतिरिति ।
मनु कृतपूर्वी कटमित्यादौ कृतशब्दार्थस्य करणकर्मण-स्तद्धितार्थंभावनायामनन्वयेऽसामर्थ्यात् वृत्तिर्नोपपद्य तान्वये तु तेनैव कर्माकाङ्क्षाविच्छितेः कटादेः कर्मतया तत्रान्वयासम्भव:, ततश्च सूत्रे कृत इति व्यर्थं कर्मणोऽभिहितत्वात् षष्ठ्यप्रसक्तेः, अत्राऽपि कटमिति द्वितीयाऽनुपपत्तिश्चेति चेत्- अत्र शाब्दिका :- कृतमिति भावक्तान्तमविवक्षित-कर्म कम्, पूर्वशब्देन समासमासाद्य कतु तद्धितस्य प्रकृतिर्भवतीति कृतपूर्वीशब्दः सिद्धः प्राक्कालिककरणकर्तेति वोधमर्जयति, तत्र भाववतान्तकृगर्थे कटकर्मत्वस्यान्वय इति वदन्ति, अत्र - म० म० श्री गोकुलनाथोपाध्याया:- नेदं युक्तम्, कर्मायिनः कृगो भावे प्रत्ययस्य दौर्लभ्यात्, अन्यथा भावप्रत्ययान्तम्यर्थे ग्रामकर्मत्वस्यान्वयसम्भवेन गतं ग्रामं, गम्यते वा ग्रामम् इति प्रयोगापत्तेः । अविवक्षितकर्मत्वे कदापि कर्मत्वान्वयस्य, विवक्षितकर्मत्वे व भावे प्रत्यय