Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 128
________________ ११६ स्याद्यर्थप्रकाशे मित्याशङ्कायामाह - पततो ध्रुव एवाश्व इत्यादि । पत्ततः अश्वावधिकविभागवतो जनात् ( तदपेक्षया ) अश्वः कुड्यावधिविभागवानपि ध्रुव एव- नरकतू' कपतनक्रियानाश्रयत्वात् अवधिभूत एव, कोऽसावित्याह- यस्मादश्वात्पत त्यसौ असो पतनकर्ता यस्मात् अश्वात् पतति स द्वितीयपतनक्रियाकर्तुं नरापेक्षया ध्रुव एवेति भावः । तथा च विश्लेषहेतु क्रियानाश्रयत्वे सतीत्यत्र तद्विश्लेषहेतु क्रियानाश्रयत्वे सतीत्येवं प्रातिस्विकरूपेण क्रियाया निवेशः कार्यं इति यत्क्रियानिरूपितमपादानत्वं यस्य विवक्ष्यते तत्क्रियानाश्रयत्वन्तत्र वाच्यम् । एवञ्चाश्वस्यापि पूर्वपतनक्रियाश्रयत्वात् तस्यापादानत्वं यथा सिद्ध्यति तदाह - तस्याध्यश्वस्य पतने इति कुड्यात्वतोऽश्वात्पततीत्यत्र हि अश्वोऽपि पतनक्रियाकर्तेति तदर्थं तदपेक्षया कुड्यस्य ध्रुवत्वेन तस्यैवादानत्वमिति ततोऽपि पञ्चमी सिध्यति । तत्र हि कुड्यस्य अश्वनिष्ठपतनक्रियानाश्रयत्वमिति तदवधिभूतमिति भावः । 'परस्परस्मान्मेषा वपसरतः' इत्यादावुभयकर्म जविभागस्थले विभागस्यैक्यात् ( क्रियाया ऐक्यात् ) तद्विश्लेषजनक - क्रियानाश्रयत्वरूपविशेषणस्य कुत्राप्यसत्त्वात् कथं तत्र पञ्चमीति शङ्कामभ्युपेत्य समाधातुमाह- 'उभावप्यध्रुवौ मेषौ इत्यादि । उभौ अपि मेषौ अध्रुवौ तद्विश्लेषजनक क्रियाश्रावेव, कुत्रेत्याह- उभयकर्मजे विभागे इति । अयमाशयः मेषौ पूर्व परस्परं शिरः संयोज्य सहैव वियुज्यतः इति उभयोरेव कर्म - क्रिया तद्विभागे जनि केति तद्विश्लेषहेतुक्रियाश्रयत्वमुभयोरिति सत्यम्, तु तथापि तत्र तादृशस्थलेऽपि क्रिये उभयमेषस्थ - विभागजनकक्रियाद्वयम्व्यवस्थिते प्रतिनियते भिन्ने इति यावत् । तामेव व्यवस्थामाह - मेषान्तर क्रियापेक्षम् - इत्यादिना । अयमर्थ:- यथा निश्चलमेषादपस र द्वितीयमेषस्थले निश्चलमेषस्यापसरत्मेष - क्रियामादाय ध्रुवत्वम् । तथाऽत्रापि विभागैक्टोऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति परस्परस्य ध्रुवस्वात्-अपादानसंज्ञासिद्धिः । तचा च विभागाश्रयत्वे सति तज्जनकतत्क्रियानाश्रयत्वं तत्क्रियायामपादानत्वमिति स्वीका र्यमिति भाव: : क्रिया चात्र धात्वर्थो न तु स्पन्द:, तेन वृक्षकर्म अविभागवति वस्त्रे वृक्षाद् वस्त्रं पततीति संगच्छते । अन्यथा वस्त्रे स्वतः पतनानुकूलक्रियाकर्तृत्वस्यासंभवेन विभाजनक क्रियाया अभावादपादानत्वानापत्तिः । एवं चैतम्मत अवधिरेव पञ्चम्यर्थः । तच्च वैयाकरणभूषणसारे स्पष्टीकृतम् । अत्र वदन्ति पञ्चम्या अवधिरिव आश्रय इव विभागोऽप्यर्थः, अविभागार्थकपतत्यादिसमभिव्याहारे, करणतृतीयाया व्यापारवत् अनेकधातूनां विभागे शक्तिकल्पनापेक्षया एकस्याः पञ्चम्यास्तत्र शक्तिकल्पनायां लाघवात् । विभागस्य धात्वर्थत्वे द्वितीयादिस्थल इव विभागस्य धातुना लाभाद् आश्रयमात्रं पञ्चम्यर्थः इत्येव ब्रूयात् । अवधेराश्रयात् पृथगुपादानवैयर्थ्यात् यजपत्योः पर्यायतापत्तेश्च प्रकृतॆ वृक्षाद् वस्त्रं पततीत्यत्र अघोदेशसंयोगानुकूलक्रियैव पत्-धात्वर्थः । अघोदेशश्च संयोगाशे उपलक्षणम् गभ्युपात्तसंयोगफले उत्तर देशवत् विभागाधीन पूर्वदेशसंयोगनाशमतरेण क्रियायाः संयोगजनकत्वासम्भवात् तस्य विभागजनककत्वमक्षतमेव समानप्रत्ययोपात्तत्वप्रत्यासत्या व्युत्पत्तिवैचित्र्येणाश्रयरूप पञ्चम्यर्थस्य विभागरूपापरपदार्थे आधेयतयाऽन्वयः, तस्य चानुकूलत्वसम्बन्धेन पतत्यर्थक्रियायाम् । एवञ्च विभागस्य धात्वर्थत्वाभावान्न कर्मताप्रसङ्गलेशोऽपि । यद्वा अवधिरवधिरित्यनुगतव्यवहारादवधित्वमाश्रयत्वव्याप्यमक्षुण्णोपाधिः, तदवच्छिन्न एव पञ्चम्यर्थः । अत एव आश्रयोऽवधिरुद्देश्य इत्यादि वैयाकरणभूषणकारिकायामधेश्रयात् पृथगुपादानम् । तस्य च स्वनिष्ठावधित्वनिरूपकविभागजनकत्वसम्बन्धेन क्रियायामन्वयः । एवं च पूर्वकल्पे विभागस्य पञ्चम्यर्थत्वपक्षे वृक्षार्ण पततीत्यत्र वृक्षाभिन्नाश्रयक विभागजनकपणीश्रयकः संयोगानुकूलव्यापार इति बोध: 1 पतधातोर्गत्यर्थेऽनुशासनात् गतिशब्दस्य संयोगानुकूलव्यापार एव प्रसिद्ध ेः । त्यजत्यर्थे गतिव्यवहारा• भावाच्च । फलावच्छिन्नव्यापारे व्यापारावच्छिन्न फले वा

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216