________________
११६
स्याद्यर्थप्रकाशे
मित्याशङ्कायामाह - पततो ध्रुव एवाश्व इत्यादि । पत्ततः अश्वावधिकविभागवतो जनात् ( तदपेक्षया ) अश्वः
कुड्यावधिविभागवानपि ध्रुव एव- नरकतू' कपतनक्रियानाश्रयत्वात् अवधिभूत एव, कोऽसावित्याह- यस्मादश्वात्पत त्यसौ असो पतनकर्ता यस्मात् अश्वात् पतति स द्वितीयपतनक्रियाकर्तुं नरापेक्षया ध्रुव एवेति भावः । तथा च विश्लेषहेतु क्रियानाश्रयत्वे सतीत्यत्र तद्विश्लेषहेतु क्रियानाश्रयत्वे सतीत्येवं प्रातिस्विकरूपेण क्रियाया निवेशः कार्यं इति यत्क्रियानिरूपितमपादानत्वं यस्य विवक्ष्यते तत्क्रियानाश्रयत्वन्तत्र वाच्यम् । एवञ्चाश्वस्यापि पूर्वपतनक्रियाश्रयत्वात् तस्यापादानत्वं यथा सिद्ध्यति तदाह - तस्याध्यश्वस्य पतने इति कुड्यात्वतोऽश्वात्पततीत्यत्र हि अश्वोऽपि पतनक्रियाकर्तेति तदर्थं तदपेक्षया कुड्यस्य ध्रुवत्वेन तस्यैवादानत्वमिति ततोऽपि पञ्चमी सिध्यति । तत्र हि कुड्यस्य अश्वनिष्ठपतनक्रियानाश्रयत्वमिति तदवधिभूतमिति भावः ।
'परस्परस्मान्मेषा वपसरतः' इत्यादावुभयकर्म जविभागस्थले विभागस्यैक्यात् ( क्रियाया ऐक्यात् ) तद्विश्लेषजनक - क्रियानाश्रयत्वरूपविशेषणस्य कुत्राप्यसत्त्वात् कथं तत्र पञ्चमीति शङ्कामभ्युपेत्य समाधातुमाह- 'उभावप्यध्रुवौ मेषौ इत्यादि । उभौ अपि मेषौ अध्रुवौ तद्विश्लेषजनक क्रियाश्रावेव, कुत्रेत्याह- उभयकर्मजे विभागे इति । अयमाशयः मेषौ पूर्व परस्परं शिरः संयोज्य सहैव वियुज्यतः इति उभयोरेव कर्म - क्रिया तद्विभागे जनि केति तद्विश्लेषहेतुक्रियाश्रयत्वमुभयोरिति सत्यम्, तु तथापि तत्र तादृशस्थलेऽपि क्रिये उभयमेषस्थ - विभागजनकक्रियाद्वयम्व्यवस्थिते प्रतिनियते भिन्ने इति यावत् । तामेव व्यवस्थामाह - मेषान्तर क्रियापेक्षम् - इत्यादिना । अयमर्थ:- यथा निश्चलमेषादपस र द्वितीयमेषस्थले निश्चलमेषस्यापसरत्मेष - क्रियामादाय ध्रुवत्वम् । तथाऽत्रापि विभागैक्टोऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति परस्परस्य ध्रुवस्वात्-अपादानसंज्ञासिद्धिः । तचा च विभागाश्रयत्वे सति तज्जनकतत्क्रियानाश्रयत्वं तत्क्रियायामपादानत्वमिति स्वीका
र्यमिति भाव: : क्रिया चात्र धात्वर्थो न तु स्पन्द:, तेन वृक्षकर्म अविभागवति वस्त्रे वृक्षाद् वस्त्रं पततीति संगच्छते । अन्यथा वस्त्रे स्वतः पतनानुकूलक्रियाकर्तृत्वस्यासंभवेन विभाजनक क्रियाया अभावादपादानत्वानापत्तिः । एवं चैतम्मत अवधिरेव पञ्चम्यर्थः । तच्च वैयाकरणभूषणसारे स्पष्टीकृतम् ।
अत्र वदन्ति पञ्चम्या अवधिरिव आश्रय इव विभागोऽप्यर्थः, अविभागार्थकपतत्यादिसमभिव्याहारे, करणतृतीयाया व्यापारवत् अनेकधातूनां विभागे शक्तिकल्पनापेक्षया एकस्याः पञ्चम्यास्तत्र शक्तिकल्पनायां लाघवात् । विभागस्य धात्वर्थत्वे द्वितीयादिस्थल इव विभागस्य धातुना लाभाद् आश्रयमात्रं पञ्चम्यर्थः इत्येव ब्रूयात् । अवधेराश्रयात् पृथगुपादानवैयर्थ्यात् यजपत्योः पर्यायतापत्तेश्च प्रकृतॆ वृक्षाद् वस्त्रं पततीत्यत्र अघोदेशसंयोगानुकूलक्रियैव पत्-धात्वर्थः । अघोदेशश्च संयोगाशे उपलक्षणम् गभ्युपात्तसंयोगफले उत्तर देशवत् विभागाधीन पूर्वदेशसंयोगनाशमतरेण क्रियायाः संयोगजनकत्वासम्भवात् तस्य विभागजनककत्वमक्षतमेव समानप्रत्ययोपात्तत्वप्रत्यासत्या व्युत्पत्तिवैचित्र्येणाश्रयरूप पञ्चम्यर्थस्य विभागरूपापरपदार्थे आधेयतयाऽन्वयः, तस्य चानुकूलत्वसम्बन्धेन पतत्यर्थक्रियायाम् । एवञ्च विभागस्य धात्वर्थत्वाभावान्न कर्मताप्रसङ्गलेशोऽपि ।
यद्वा अवधिरवधिरित्यनुगतव्यवहारादवधित्वमाश्रयत्वव्याप्यमक्षुण्णोपाधिः, तदवच्छिन्न एव पञ्चम्यर्थः । अत एव आश्रयोऽवधिरुद्देश्य इत्यादि वैयाकरणभूषणकारिकायामधेश्रयात् पृथगुपादानम् । तस्य च स्वनिष्ठावधित्वनिरूपकविभागजनकत्वसम्बन्धेन क्रियायामन्वयः । एवं च पूर्वकल्पे विभागस्य पञ्चम्यर्थत्वपक्षे वृक्षार्ण पततीत्यत्र वृक्षाभिन्नाश्रयक विभागजनकपणीश्रयकः संयोगानुकूलव्यापार इति बोध: 1 पतधातोर्गत्यर्थेऽनुशासनात् गतिशब्दस्य संयोगानुकूलव्यापार एव प्रसिद्ध ेः । त्यजत्यर्थे गतिव्यवहारा• भावाच्च । फलावच्छिन्नव्यापारे व्यापारावच्छिन्न फले वा