Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 160
________________ स्यार्थप्रकाश १४८ हितादिदेशवाचिनः इति दिग्वाचकत्वं तेषाम् अत्रापि पूर्वोक्ततत्तत्सानिध्यास्वयि पूर्वोक्तमवधिमत्त्वं पञ्चम्यर्थः । ग्रामात्पूर्वस्यां दिशि वसतीत्यादावुक्तरीत्यैवाभ्वयबोधः प्रकृतेऽपि विज्ञेयः । एवमेव 'श्रीष्मात्प्राक् वसन्तः, अर्जुनात्प्राक् युधिष्ठिर इत्यादावप्यन्वयो बोध्यः । एवं बहिः शब्दयोगेऽप्यनेन पञ्चमी विधीयते 'प्रामाद्वहिरारामः इति यथा । अत्र अवयवसंयुक्तोऽन्यावयवसंयुक्तो बहिः पदार्थः । पञ्चम्या अवयवान्वयि समवायित्व - मन्यत्वान्वयि प्रतियोगित्वं चार्थः । बहिः पदार्थस्याधेयतया आरामादाववयः । तथा च ग्रामसमवाय्य वयवसंयुक्तो यो ग्राम प्रतियोगिताकभेदवस्सम्बन्ध्यवयवसंयुक्तः तद्वृत्तिराराम इत्यन्वयबोधः । 'काश्या बहिः सौराष्ट्रम् इत्यादिप्रयोगवारणाय अवयवसंयुक्तत्वमन्यावयवसंयुक्ते विशेषणम् । अत एवानधिकरणं बहिः पदार्थ इत्यपि प्रत्युक्तम् — घटस्य घटानधिकरणतया 'घटे जलं घटाद्वहि:' इति प्रयोगप्रसङ्गाच्च । "मणिबन्धादाकनिष्ठ करस्य करभो बहिः' इत्यादी बहिः शब्दयोगसरवेऽपि सम्बन्यसामान्यविवक्षया षष्ठी बोव्या अत्र पुष्ठावयवयुक्तो ऽवयवो वहिरर्थः तत्र षष्ठ्यर्थ सम्बन्ध स्थान्वयः 1 आरात्-शब्दयोगॆऽपि पञ्चमी प्रकृतसूत्रेण विधीयते यथा ग्रामादारात् तटाकः इत्यादौ । आराच्छन्दो दूरसमी पयोर्वर्त्तते । सामीप्यं च सामान्यतः संयुक्तसंयोगित्वम्, विशेषतः स्वल्पेतरसंयोगघटितपरम्परासम्बन्धवश्वम्, इतरापेक्षं तदन्यत्सामान्यतः समीपान्यत्वं दूरस्वं विशेषतो बहुतरसंयोगघटितपरम्परावत्त्वम् । परम्पराघटकप्रथमसंयोगान्वयि प्रयियोगित्वं तु पञ्चम्यर्थ: सामीप्य दूरत्वघटक चरमसंयोगयोः तटाकादावन्वयः । तथा च ग्रामप्रतियोगिता कसंयोगवद्दशसंयोगवस्तटाक इत्यन्वयबोधः । साम्प्रदायिकास्तु परत्वमपरत्वं चारादर्थः, अवधित्वं पञ्चम्यर्थः । ग्रामादारादित्यत्र ग्रामावधिकपरत्वापरत्व वस्तिटाक इत्यन्वयबोध इति वदन्ति ॥२२॥७५॥ तथा च NNIN ऋणाद्ध ेतोः || २|२|७६॥ अनेन सूत्रेण हेतुभूत ऋणवाचिनो नाम्नः पञ्चमी विधीयते । हेतुश्च 'फलसाधनयोग्यः पदार्थ इति विवृतो वृहद्वत्तौ । स च हेतुक करण० (२२१४४ ) इति सूत्रानु रोगेन कतु भिन्नो ग्राह्यः । शताद्बद्ध इत्युदाहरणम् । अत्र पञ्चमी हेत्वर्थका, तथा च शतहेतुकबन्धनकर्मीभूत इत्यर्थंबोष: । 'शतेन बन्धित' इत्यादी शतं बन्धनस्य प्रयोजककतृ" इति तत्र तृतीयैव भवति न पञ्चमीत्यर्थमेव हेतोरित्युक्तम् ; हेतुश्च कर्तृभिन्न एव ग्राह्य इत्यावेदितं चेति दिक् १२२|७६ || गुणादस्त्रियां नवा || २|२|७७|| अनेन सूत्रेणास्त्रियां वर्तमानात् हेतुभूतगुणवाचिनः पञ्चमी विधीयते । सा च हेतुत्वार्थिका । 'जाड्याबद्ध' इत्यादी जाड्यहेतुकबन्धनकर्मीभूत इत्यर्थः, जाड्यं मोहो मिथ्याज्ञानं वा । तस्य गुणत्वं स्फुटमेव । गुणादिति कथनाच्च घनेन कुलमित्यादौ न पञ्चम्यपि तु हेतुतृतीयैव । गुणभिन्नादपि हेतोः पञ्चमी दृश्यते यथा 'अस्त्यत्रा निघू'मात्' 'नास्ति घठोऽनुपलब्धेः' इत्यादौ । सा कथम् ? अत्र हि नाम्यादेधूमादिहेतुरपि तु धूमस्याग्निरेव जनकः । किन्तु वहि नज्ञानस्य हेतुत्वं धूमे । घटाभावज्ञामस्य हेतुत्वमनुपलब्धौ । तथा च पञ्चमी प्रयोगोऽनुचित इत्याशङ्का वारयितुमाह बृहद्वृत्तौ गम्ययपः कर्माचारे इति । गम्यमानस्य यवन्तस्य कर्मणि आधारे च "गम्ययपः कर्माधारे” (२|२|७४) इति पूर्वोक्तसूत्रेण पञ्चमी विहिता संवेह भवतीति भावः । तथाविधं वाक्यमुपदिशति धूमादिकमुपलभ्येत्यादिना । तथा च धूमादेः यबन्तकर्मत्वमिति तत्र पञ्चमी सिद्धति । अन्ये तु प्रकृतसूत्रे न वेति योगे विभज्य गुणभिन्नादपि स्त्रोलिङ्गादपि च हेतोः पञ्चमीं साधयन्ति । अस्ति चात्र कार्यकारणसम्बन्धमूलक सहचारव्याप्तिग्रहणद्वारा धूमस्य

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216