________________
स्यार्थप्रकाश
१४८
हितादिदेशवाचिनः इति दिग्वाचकत्वं तेषाम् अत्रापि पूर्वोक्ततत्तत्सानिध्यास्वयि पूर्वोक्तमवधिमत्त्वं पञ्चम्यर्थः । ग्रामात्पूर्वस्यां दिशि वसतीत्यादावुक्तरीत्यैवाभ्वयबोधः प्रकृतेऽपि विज्ञेयः । एवमेव 'श्रीष्मात्प्राक् वसन्तः, अर्जुनात्प्राक् युधिष्ठिर इत्यादावप्यन्वयो बोध्यः ।
एवं बहिः शब्दयोगेऽप्यनेन पञ्चमी विधीयते 'प्रामाद्वहिरारामः इति यथा । अत्र अवयवसंयुक्तोऽन्यावयवसंयुक्तो बहिः पदार्थः । पञ्चम्या अवयवान्वयि समवायित्व - मन्यत्वान्वयि प्रतियोगित्वं चार्थः । बहिः पदार्थस्याधेयतया आरामादाववयः । तथा च ग्रामसमवाय्य वयवसंयुक्तो यो ग्राम प्रतियोगिताकभेदवस्सम्बन्ध्यवयवसंयुक्तः तद्वृत्तिराराम इत्यन्वयबोधः । 'काश्या बहिः सौराष्ट्रम् इत्यादिप्रयोगवारणाय अवयवसंयुक्तत्वमन्यावयवसंयुक्ते विशेषणम् । अत एवानधिकरणं बहिः पदार्थ इत्यपि प्रत्युक्तम् — घटस्य घटानधिकरणतया 'घटे जलं घटाद्वहि:' इति प्रयोगप्रसङ्गाच्च । "मणिबन्धादाकनिष्ठ करस्य करभो बहिः' इत्यादी बहिः शब्दयोगसरवेऽपि सम्बन्यसामान्यविवक्षया षष्ठी बोव्या अत्र पुष्ठावयवयुक्तो ऽवयवो वहिरर्थः तत्र षष्ठ्यर्थ सम्बन्ध स्थान्वयः 1
आरात्-शब्दयोगॆऽपि पञ्चमी प्रकृतसूत्रेण विधीयते यथा ग्रामादारात् तटाकः इत्यादौ । आराच्छन्दो दूरसमी पयोर्वर्त्तते । सामीप्यं च सामान्यतः संयुक्तसंयोगित्वम्, विशेषतः स्वल्पेतरसंयोगघटितपरम्परासम्बन्धवश्वम्, इतरापेक्षं तदन्यत्सामान्यतः समीपान्यत्वं दूरस्वं विशेषतो बहुतरसंयोगघटितपरम्परावत्त्वम् । परम्पराघटकप्रथमसंयोगान्वयि प्रयियोगित्वं तु पञ्चम्यर्थ: सामीप्य दूरत्वघटक चरमसंयोगयोः तटाकादावन्वयः । तथा च ग्रामप्रतियोगिता कसंयोगवद्दशसंयोगवस्तटाक इत्यन्वयबोधः । साम्प्रदायिकास्तु परत्वमपरत्वं चारादर्थः, अवधित्वं पञ्चम्यर्थः । ग्रामादारादित्यत्र ग्रामावधिकपरत्वापरत्व वस्तिटाक इत्यन्वयबोध इति वदन्ति ॥२२॥७५॥
तथा च
NNIN
ऋणाद्ध ेतोः || २|२|७६॥
अनेन सूत्रेण हेतुभूत ऋणवाचिनो नाम्नः पञ्चमी विधीयते । हेतुश्च 'फलसाधनयोग्यः पदार्थ इति विवृतो वृहद्वत्तौ । स च हेतुक करण० (२२१४४ ) इति सूत्रानु रोगेन कतु भिन्नो ग्राह्यः । शताद्बद्ध इत्युदाहरणम् । अत्र पञ्चमी हेत्वर्थका, तथा च शतहेतुकबन्धनकर्मीभूत इत्यर्थंबोष: । 'शतेन बन्धित' इत्यादी शतं बन्धनस्य प्रयोजककतृ" इति तत्र तृतीयैव भवति न पञ्चमीत्यर्थमेव हेतोरित्युक्तम् ; हेतुश्च कर्तृभिन्न एव ग्राह्य इत्यावेदितं चेति दिक् १२२|७६ ||
गुणादस्त्रियां नवा || २|२|७७||
अनेन सूत्रेणास्त्रियां वर्तमानात् हेतुभूतगुणवाचिनः पञ्चमी विधीयते । सा च हेतुत्वार्थिका । 'जाड्याबद्ध' इत्यादी जाड्यहेतुकबन्धनकर्मीभूत इत्यर्थः, जाड्यं मोहो मिथ्याज्ञानं वा । तस्य गुणत्वं स्फुटमेव । गुणादिति कथनाच्च घनेन कुलमित्यादौ न पञ्चम्यपि तु हेतुतृतीयैव । गुणभिन्नादपि हेतोः पञ्चमी दृश्यते यथा 'अस्त्यत्रा निघू'मात्' 'नास्ति घठोऽनुपलब्धेः' इत्यादौ । सा कथम् ? अत्र हि नाम्यादेधूमादिहेतुरपि तु धूमस्याग्निरेव जनकः । किन्तु वहि नज्ञानस्य हेतुत्वं धूमे । घटाभावज्ञामस्य हेतुत्वमनुपलब्धौ । तथा च पञ्चमी प्रयोगोऽनुचित इत्याशङ्का वारयितुमाह बृहद्वृत्तौ गम्ययपः कर्माचारे इति । गम्यमानस्य यवन्तस्य कर्मणि आधारे च "गम्ययपः कर्माधारे” (२|२|७४) इति पूर्वोक्तसूत्रेण पञ्चमी विहिता संवेह भवतीति भावः । तथाविधं वाक्यमुपदिशति धूमादिकमुपलभ्येत्यादिना । तथा च धूमादेः यबन्तकर्मत्वमिति तत्र पञ्चमी सिद्धति ।
अन्ये तु प्रकृतसूत्रे न वेति योगे विभज्य गुणभिन्नादपि स्त्रोलिङ्गादपि च हेतोः पञ्चमीं साधयन्ति । अस्ति चात्र कार्यकारणसम्बन्धमूलक सहचारव्याप्तिग्रहणद्वारा
धूमस्य