Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 143
________________ पञ्चम्यर्थप्रकाशः कर्मत्वात् तद्वाचकपदाद् द्वितीया । पञ्चभ्याः कर्मत्वमर्थः, फलैकदेशकियायामन्वेति । तथा च पुष्पकर्मकगमनाभावस्य शोषणाभावस्य वा आतपवृत्तेरनुकूलो व्यापारो वाक्यार्थः । न चैवं क्रियाभावप्रयोजकव्यापार एव सर्वत्र वारयतेरर्थोऽस्तु इति वाच्यम्, वारिता अपि गावो यवं भक्षन्ते, वारितोऽव्यन्धः कूपं गतः इति प्रयोगस्यानुपपत्तेः, भक्षणादिक्रियाऽभावस्वरूपफलाश्रयस्य वारणकर्मणो भक्षणादिक्रियाकर्तृत्वानुपपत्तेरिति । ननु वारयतेर्नानाविधार्थकत्वाभ्युपगमे यवेभ्यो गां मारयतीत्यादी चेतने कर्मणि क्रियाऽभावेच्छाप्रयोज्य व्यापार एवार्थोऽस्तु किं प्रवृत्त्यभावप्रयोजकज्ञाननिवेशेन तावतैव वार्यमाणा गावो भुञ्जत इत्यादिप्रयोगोपपत्तेः; फलीभूतायाः क्रियाभावे व्छाया विषयस्य गवादेर्वारणकर्मत्वेऽपि भक्षणकतु त्वाविरोधादिति चेत्, स्यादेवं यदि यवभक्षणाभावेच्छया विधीयमाने क्षेत्रस्य कण्टकाद्यावरणेऽपि वारयतीतिप्रयोगः । यदि व वारयतेर्नानाविधार्थकत्वेऽनुगत प्रवृत्तिनिमित्ताभावे ० प्रयोगातिप्रसङ्गः क्रियाभावप्रयोजयापारार्थकत्वे तु यवकर्मकत्यागाभावप्रयोजकव्यापारेऽपि यवेभ्यो गां वारयतीतिप्रयोगप्रसङ्ग इति विभाव्यते तदा संयोगाभावप्रयोजककार्यानुकूलो व्यापारो वारयतेरर्थः तथाविधकार्यस्य फलतया तद्वतो गवादेः कर्मत्वम्, यदीय सम्बन्धस्याभावस्तद्वाचकपदात् पञ्चमी, 'कतुव्र्व्याप्यं कर्मेति' सूत्रवदाप्तिमत एवापादानत्वविवक्षणात् । आप्तिस्तु प्राप्तिः सा च सम्बन्ध एव । तदभावप्रयोजकं क्वचिदनिष्टसाधनताज्ञानस्वरूपं कार्यं, यथा गवादेर्यवभक्षणत्वावच्छेदेन दण्डताडनाद्यनिष्टसाधनताज्ञानं कण्ठावच्छेदेन यवसम्बन्धस्य यवसंयोगस्याभावं प्रयोजयति । यस्य यवादेर्न केनापि भक्षणं तत्संयोगाभावमपि सामान्यतो यवभक्षणत्वावच्छेदेनानिष्टसाधनताज्ञानमेव प्रयोजयति । अन्यथा तद्व्यक्तिभक्षणस्यानुपस्थित्या तद्गतानिष्टसाधनताज्ञानासंभवात् कुतोऽपि यवाद्वारणासम्भवात् । एवं कूपगमनत्वावच्छेदेन शरीरोपघातकपतनानिष्टसाधनताज्ञानं चरणावच्छेदेन कूप संयोगस्याभावं प्रयोजयति । १३१ क्वचिदचेतने कर्मणि ज्ञानातिरिक्तं कार्यम्, यथा- आतपादे: छत्राद्यावरणसंयोगः नृपसंयोगाभावं पुष्पसंयोगाभावं वा प्रयोजयति । एवं च पञ्चम्या आधेयत्वं निरूपकत्वं वाऽर्थः, तच्च धात्वर्थकदेशे सम्बन्धेऽन्वेति । तथा च यवेभ्यो ग वारयति दण्डीत्यत्र यवनिरूपित संयोगाभावप्रयोजककार्यस्य गोवृत्तेरनुकूलो यो व्यापारस्तदनुकूलकृतिमान् दण्डीत्यन्वयबोधः । एवं कूपादन्धं वारयति, पुष्पान्नृपाद्वाऽऽरूपं वारयति, इत्यादावप्यन्वयो बोध्यः । एवं चण्डालात्कनक वारयति दातेत्यत्र चाण्डालसम्प्रदान ककनकदाननिष्ठा निष्टसाधनताज्ञानविषयत्वस्वरूपकार्यस्य कनकनिष्ठस्य प्रयोजकं तथाविधागमस्मरणं दातुः तथाविधविषयत्वं तु कनके चाण्डालस्वत्वाभावं प्रयोजयति इत्थं च वारयते नानार्थता, न वा वार्यमाणा गावो भुञ्जत इत्यादिप्रयोगानुपपत्तिः । सम्बन्धस्तु प्रयोज्यो बोध्यः । तेन घटसमवेतत्वाभावप्रयोजकस्याग्निसंयोगविशेषसामानाधिकरण्यस्य श्यामरूपनिष्ठस्यानुकूले पाचकव्यापारे सत्यपि घटात् श्यामं रूपं वारयति पाचक इति न प्रयोगः । यत्र तु वारणान्तर्भूतस्य सम्बन्धाभावस्यैव वारयत्यादिना विवक्षणं तत्र सम्बन्धस्याभावे विशेषणतया फलत्वात् तद्वतः कर्मत्वमिति तत्र परत्वाद् द्वितीयैव । यथा 'कूप वारयति पान्यः' 'मांसं वारयति मुनि' रिति । अत्र कूपवृत्तिसम्बन्धाभावप्रयोजककृतिमान् पान्थः इत्यादि प्रकारेणास्वयबोधः । यत्र चाभावप्रयो व्यापारस्यैव वारणान्तभूतस्य विवक्षणं तत्र सम्बन्धस्य वारणानन्तर्भूतत्वात् तद्वतो नापादानत्वमिति तत्र न पञ्चमी वारणार्थकधात्वर्थान्तर्भूतसम्बन्धत एवापादानत्वविवक्षणात् । प्रतियोग्य विशेषितस्य फलीभूताभावस्य प्रतियोग्येव कर्म, न त्वधिकरणं यथा 'घटं रहयति' इत्यादी घटादिः प्रतियोगी, तथाऽत्रापि प्रतियोगिन्येव द्वितीया । यथा कूपगमनं कूपसंयोगं वा वारयति पान्थ इत्यादी । अत्र द्वितीयायाः प्रतियोगित्वमर्थः, तच्च फलेऽभावेऽन्वेति । तथा च कूपगमनप्रतियोगिताकस्य कूप संयोग प्रतियोगिताकस्य वाऽभावस्य प्रयोजको यो व्या

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216