________________
पञ्चम्यर्थप्रकाशः
कर्मत्वात् तद्वाचकपदाद् द्वितीया । पञ्चभ्याः कर्मत्वमर्थः, फलैकदेशकियायामन्वेति । तथा च पुष्पकर्मकगमनाभावस्य शोषणाभावस्य वा आतपवृत्तेरनुकूलो व्यापारो वाक्यार्थः । न चैवं क्रियाभावप्रयोजकव्यापार एव सर्वत्र वारयतेरर्थोऽस्तु इति वाच्यम्, वारिता अपि गावो यवं भक्षन्ते, वारितोऽव्यन्धः कूपं गतः इति प्रयोगस्यानुपपत्तेः, भक्षणादिक्रियाऽभावस्वरूपफलाश्रयस्य वारणकर्मणो भक्षणादिक्रियाकर्तृत्वानुपपत्तेरिति ।
ननु वारयतेर्नानाविधार्थकत्वाभ्युपगमे यवेभ्यो गां मारयतीत्यादी चेतने कर्मणि क्रियाऽभावेच्छाप्रयोज्य व्यापार एवार्थोऽस्तु किं प्रवृत्त्यभावप्रयोजकज्ञाननिवेशेन तावतैव वार्यमाणा गावो भुञ्जत इत्यादिप्रयोगोपपत्तेः; फलीभूतायाः क्रियाभावे व्छाया विषयस्य गवादेर्वारणकर्मत्वेऽपि भक्षणकतु त्वाविरोधादिति चेत्, स्यादेवं यदि यवभक्षणाभावेच्छया विधीयमाने क्षेत्रस्य कण्टकाद्यावरणेऽपि वारयतीतिप्रयोगः । यदि व वारयतेर्नानाविधार्थकत्वेऽनुगत प्रवृत्तिनिमित्ताभावे ० प्रयोगातिप्रसङ्गः क्रियाभावप्रयोजयापारार्थकत्वे तु यवकर्मकत्यागाभावप्रयोजकव्यापारेऽपि यवेभ्यो गां वारयतीतिप्रयोगप्रसङ्ग इति विभाव्यते तदा संयोगाभावप्रयोजककार्यानुकूलो व्यापारो वारयतेरर्थः तथाविधकार्यस्य फलतया तद्वतो गवादेः कर्मत्वम्, यदीय सम्बन्धस्याभावस्तद्वाचकपदात् पञ्चमी, 'कतुव्र्व्याप्यं कर्मेति' सूत्रवदाप्तिमत एवापादानत्वविवक्षणात् । आप्तिस्तु प्राप्तिः सा च सम्बन्ध एव । तदभावप्रयोजकं क्वचिदनिष्टसाधनताज्ञानस्वरूपं कार्यं, यथा गवादेर्यवभक्षणत्वावच्छेदेन दण्डताडनाद्यनिष्टसाधनताज्ञानं कण्ठावच्छेदेन यवसम्बन्धस्य यवसंयोगस्याभावं प्रयोजयति । यस्य यवादेर्न केनापि भक्षणं तत्संयोगाभावमपि सामान्यतो यवभक्षणत्वावच्छेदेनानिष्टसाधनताज्ञानमेव प्रयोजयति । अन्यथा तद्व्यक्तिभक्षणस्यानुपस्थित्या तद्गतानिष्टसाधनताज्ञानासंभवात् कुतोऽपि यवाद्वारणासम्भवात् । एवं कूपगमनत्वावच्छेदेन शरीरोपघातकपतनानिष्टसाधनताज्ञानं चरणावच्छेदेन कूप संयोगस्याभावं प्रयोजयति ।
१३१
क्वचिदचेतने कर्मणि ज्ञानातिरिक्तं कार्यम्, यथा- आतपादे: छत्राद्यावरणसंयोगः नृपसंयोगाभावं पुष्पसंयोगाभावं वा प्रयोजयति । एवं च पञ्चम्या आधेयत्वं निरूपकत्वं वाऽर्थः, तच्च धात्वर्थकदेशे सम्बन्धेऽन्वेति । तथा च यवेभ्यो ग वारयति दण्डीत्यत्र यवनिरूपित संयोगाभावप्रयोजककार्यस्य गोवृत्तेरनुकूलो यो व्यापारस्तदनुकूलकृतिमान् दण्डीत्यन्वयबोधः । एवं कूपादन्धं वारयति, पुष्पान्नृपाद्वाऽऽरूपं वारयति, इत्यादावप्यन्वयो बोध्यः । एवं चण्डालात्कनक वारयति दातेत्यत्र चाण्डालसम्प्रदान ककनकदाननिष्ठा निष्टसाधनताज्ञानविषयत्वस्वरूपकार्यस्य कनकनिष्ठस्य प्रयोजकं तथाविधागमस्मरणं दातुः तथाविधविषयत्वं तु कनके चाण्डालस्वत्वाभावं प्रयोजयति इत्थं च वारयते नानार्थता, न वा वार्यमाणा गावो भुञ्जत इत्यादिप्रयोगानुपपत्तिः । सम्बन्धस्तु प्रयोज्यो बोध्यः । तेन घटसमवेतत्वाभावप्रयोजकस्याग्निसंयोगविशेषसामानाधिकरण्यस्य श्यामरूपनिष्ठस्यानुकूले पाचकव्यापारे सत्यपि घटात् श्यामं रूपं वारयति पाचक इति न प्रयोगः ।
यत्र तु वारणान्तर्भूतस्य सम्बन्धाभावस्यैव वारयत्यादिना विवक्षणं तत्र सम्बन्धस्याभावे विशेषणतया फलत्वात् तद्वतः कर्मत्वमिति तत्र परत्वाद् द्वितीयैव । यथा 'कूप वारयति पान्यः' 'मांसं वारयति मुनि' रिति । अत्र कूपवृत्तिसम्बन्धाभावप्रयोजककृतिमान् पान्थः इत्यादि प्रकारेणास्वयबोधः । यत्र चाभावप्रयो व्यापारस्यैव वारणान्तभूतस्य विवक्षणं तत्र सम्बन्धस्य वारणानन्तर्भूतत्वात् तद्वतो नापादानत्वमिति तत्र न पञ्चमी वारणार्थकधात्वर्थान्तर्भूतसम्बन्धत एवापादानत्वविवक्षणात् । प्रतियोग्य विशेषितस्य फलीभूताभावस्य प्रतियोग्येव कर्म, न त्वधिकरणं यथा 'घटं रहयति' इत्यादी घटादिः प्रतियोगी, तथाऽत्रापि प्रतियोगिन्येव द्वितीया । यथा कूपगमनं कूपसंयोगं वा वारयति पान्थ इत्यादी । अत्र द्वितीयायाः प्रतियोगित्वमर्थः, तच्च फलेऽभावेऽन्वेति । तथा च कूपगमनप्रतियोगिताकस्य कूप संयोग प्रतियोगिताकस्य वाऽभावस्य प्रयोजको यो व्या