________________
१३२
स्यार्थप्रकाशे
पारस्तदनुकूलकृतिमान् पान्थ इत्यन्वयवोधः । एवं मांसभोजनं मांसकण्ठसंयोगं वा वारयति मुनिरित्यादावप्यन्वयबोघो बोध्यः । यत्राभावेऽधिकरणस्य संयोगो विवक्षितस्तत्र शेषे षष्ठ्टोव प्रमाणं यथाऽन्धस्य कूपगमनं कूपसंयोगं वा वारयति दयालुः, मांसभोजनं श्राद्धस्य वारयति मुनिः, पापकर्म स्वस्य वारयति विद्वान् इति । अत्रान्वयबोधः पूर्ववदेव । विशेषस्तु प्रतियोग्यन्विते प्रयोजकव्यापारविशेषणेऽभावे षष्ठ्यर्थ सम्बन्धभानमिति । एवं वारयत्यादेरुक्तार्थकतायामेव दर्शितनिखिलप्रयोगोपपत्तिः, त्यागाभावप्रयोजकव्यापारे वारयति प्रयोगानुत्पत्तिश्चेति । वारयति - पर्याया वर्जयति - निवर्तयति - निषेधयति रक्षति प्रभृतयो बोध्या:, तेन तादृशधातुप्रयोगेऽप्यपादानत्वविवक्षया यवेभ्यो गां वर्जयतीत्यादयः प्रयोगा बोध्याः ।
दर्शित कार्य स्वरूपफलवतः कर्मत्वे सम्बन्धप्रयोजक-क्रियादिमवं तन्त्रम्, अतः सान्निध्याभावस्वरूपस्य सम्वन्धाभावप्रयोजकस्य फलस्य प्रयोज्यस्य सत्त्वेऽपि वह्निकूपादेन कर्मत्वमिति माणवकादग्नि कूपमन्थाद्वा वारयतीति न प्रयोगः; सम्बन्धप्रयोजक क्रियादेः माणवकेऽन्धे च विद्यमानस्याग्नी कूपे वा विरहादिति माणवकादेस्तथात्वात्कर्मत्वमेवेति ।
( अन्त पञ्चमीविचारः )
तिरोभावार्थ कधातुयोगे यत्कर्तृकादर्शनेच्छया कर्ता तिरोहितो भवति तस्यापादानसंज्ञां विशिष्य विदधति परे । यथा 'उपाध्यायादन्तर्धत्ते शिष्यः' इत्यादी । तत्रापि बुद्धिकृतोऽपायोऽस्त्येवेति तमादाय प्रकृतसूत्रेण वापादानसंज्ञा सिद्धति नावश्यकता पृथगपादानसंज्ञारम्भस्येति सूचयति'उपाध्यायादन्तर्धत्ते' इत्यादिना वृत्तौ । तथा हि- अन्तर्धत इत्यस्य आत्मकर्मकोपाध्यायकतु कदर्शनाभावेच्छपा तिरोभवतीत्यर्थः । अत्र हि पश्यति शिष्यः- यदि मामुपाध्यायः
पश्यति ध्रुवं मे प्रेषणं, पठनहानिप्रयुक्त उपालम्भो वेति; सबुद्धया उपाध्यायं सम्प्राप्य ततो निवर्तत इति निवृत्तिपूर्वकतिरोभवने घातोर्वृत्तेः प्रकृतसूत्रेणैवापादानसंज्ञा सिद्धति । एवं उपाध्यायान्त्रिलीयते शिष्यः, मातुर्निलीयते बाल इत्यादावपि गतिर्बोध्या । अत्रान्ये इत्थं वर्णयन्तिस्वकर्मकदर्शनाभावप्रयोजको व्यापारोऽन्तर्दधातेनिलीयतेस्तिरोभवतेरेतत्पर्यायाणामन्येषां चार्थः । पञ्चम्यास्तु वृत्तिमध्वप्रकारकेच्छाविषयत्वमर्थः, स च स्वकर्मकादर्शनेऽन्वेति । प्रकृत्यर्थस्य निरूपकतया वृत्तिमत्वेऽन्वयः । तथा चोपाध्यायनिरूपितवृत्तिमत्व प्रकार के च्छा विषयस्य स्वकर्मकदर्शनाभावस्यानुकूलो व्यापारी वाक्यार्थः । इष्यते हि शिष्टयेण उपाध्यायो मां मा पश्येदिति उपाध्यायवृत्तिरखेन स्वकर्मकदर्शनाभावः । अतएव मानुनिलीयते बालः, माता पुनरेवं पश्यत्येवेत्यादयः प्रयोगाः । अत एव पाणिनीये सूत्रे ( अन्तवों येनादर्शनमिच्छति ११४:२८ इत्यत्र ) इच्छति - ग्रहणम् । बालस्येच्छा तथास्त्टोव फलं भवतु मा वेत्यन्यदेतत् । एष एव सकलशाब्दिकाभिमतः पन्थाः ।
परे तु दर्शनाभावप्रयोजकव्यापारो नान्तर्दधात्यादेरर्थः, तथा सति स्वकर्मकादर्शनेच्छया येन शत्रुचक्षुर्नाशितं तत्र, सोऽयं शत्रोनिलीयत इति प्रयोगापत्तेः । तस्माच्चक्षुः संयोगप्रतिबन्धकदेशसंयोगोऽन्तर्दधात्यादेरर्थः । प्रतिबन्धकस्तु व्यवहितदेशसंयोगः । यदि च तमसि निलीयत इति प्रयोगस्तदा चाक्षुषजनक संयोग प्रतिबन्धकदेशसंयोगस्तथाविधधातूनामर्थः । पञ्चम्यास्तु दर्शनाभावेच्छाऽर्थः । तत्र प्रकृत्यर्थस्य कर्तृतिया दर्शनेऽन्वयः, दर्शनाभावेच्छायाः प्रयोज्यतयाऽन्तर्धावन्वयः । मातुर्निलीयते बाल इत्यत्र मातृकर्तृ कदर्शनाभावेच्छाप्रयोज्यचाक्षुषजनक संयोग प्रतिबन्धकदेश संयोगानुकूलकृतिमान् बाल इत्यन्वयबोधः । वस्तुतस्तु चक्षुषाभावेच्छाप्रयोज्य यवहितादिदेशसंयोगोऽन्तधिः । पञ्चम्याः कर्तृस्वमर्थः सच चाक्षुषेऽन्वेति । चाक्षुषाभावस्तु चाक्षुपविषयत्वाभावः स्ववृत्तिस्तर्धी निविशते । स्वान्यवृत्तिचाक्षुषविपयत्वाभावेच्छायां न पञ्चमीप्रयोगः, अत एवान्तर्धाविति किम्