Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 97
________________ युवा कराक्रान्तमहीभुदुच्चकै - रसंशयं सम्प्रति तेजसा रविः" ( शिशुपालवधे प्रथमसर्गे ) - तृतीयार्थप्रकाशः इत्यत्र 'वपुषा चतुर्भुज:' 'मुखेन त्रिलोचन' इत्यादिप्रयोगा अप्युपपद्यन्ते । तत्र अवयवस्य नाशस्वरूपापचयस्येवोपचयस्यापि विकारत्वमेवेतीह तृतीययोरुपचयोऽर्थः । स च प्रयोज्यत्वेन भुजचतुष्टयसम्बन्धेऽन्वेति । वस्तुतस्तु विकारस्य तृतीयार्थत्वं सर्वत्रेषु न प्रतिभासत इति स्वमतोक्तं प्रकारार्थत्वमेव व्यापकतया समादरणीयम् । 1 वपुषा चतुर्भुज इत्यत्र चतुर्भुजशब्दस्य भुजचतुष्टयसमवेतोऽर्थः । प्रकारश्च तृतीयार्थोऽभेदेन सम्बन्धेनान्वेतीति वपुः प्रकाराभिन्नभुजचतुष्टयसमवेतः शिशुपालो बाल इतिरूपेणान्वयबोधो बोध्यः । एवं त्रिलोचनशब्दस्यापि लोचनत्रयतमवेतोऽर्थः प्रकारश्च तृतीयार्थोऽभेदेन त्रिलोचनपदार्थेऽन्वेति । एवम् 'उदरेण पिचण्डिलः' वर्णेन लोहित, इत्यादिप्रयोगा अपि प्रकारार्थतयैवोपपादनीयाः । यद्यप्यारव्याग्रहणस्य प्रसिद्धिपरिग्रहार्थत्वोक्तेरेवमादयः प्रयोगा लोके न बहुतरप्रयुक्ता इत्यसिद्धा इवाभान्ति, तथाऽपि महाकविप्रयोगेषु तत्र-तत्रोपलभ्यमानत्वान्नाप्रसिद्धत्वम् । प्रकृतमनुसराम: - 'शिरसा खल्वाट इत्यत्र केशरहितकपालवान् खल्वाटशब्दार्थः । तत्र च शिरः प्रकारस्याभेदेनैवान्वयः शिरःप्रकार विशेष केशरहित कपालवानितिबोधात् । प्रकृत्या दर्शनीयः । अत्र दर्शनीयत्वमदर्शनीयत्वञ्च सौन्दर्यासौन्दर्यरूपम् प्रकृतिप्रकार एव । प्रकृतिपदार्थविचारः । प्रकृतिपदार्थस्तु स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगितानबच्छेदकधर्मवान्- असाधारणो धर्मः । भवति च सतो जातिः प्रकृतिरित्यत्र जात्यादिस्तथाभूतः । असाधारण्यविशेषणात् घटस्य गुणो जातिर्वा प्रकृतिरिति न प्रयोगः । 哎 कम्बुग्रीवादिमत्त्वं घटस्य प्रकृतिरिति प्रयोगश्च भवति । कम्बुग्रीवादिमत्त्वस्य तदसाधारणधर्मत्वान् । जलस्य शैत्यं पृथिव्या गन्धः, तेजस ओष्ण्यं प्रकृतिरित्यादी शैत्यगन्धीयानां संग्रहाय स्थूलकालावच्छिन्नत्वं स्वाश्रयनिष्ठात्यन्ताभावे विशेषणं देयम् । यदि च संयोगो द्रव्यस्य, मत्सरः खलस्य, चैतन्यमात्मनः प्रकृतिरित्यादिप्रयोगः प्रामाणिकस्तदा देशान वच्छिन्न विशेषणतया स्वाश्रये स्थूलकालावच्छेदेन वर्तमानस्यात्यन्ताभावस्य प्रतियोगितानवच्छेदकधर्मवान साधारणो धर्मः प्रकृतिरिति । द्रव्ये वृक्षादो मूलाद्यवच्छेदेन संयोगस्य, खले मत्सरस्य आत्मनि ज्ञानस्य घटाद्यवच्छेदेन स्थूलकालावच्छेदेन वर्तमानोऽप्यत्यन्ताभावो न देशानवच्छिन्नविशेषणतयाऽस्तीति न तेषामसंग्रहः । वस्तुतस्तु भूयः कालिकस्वाश्रयनिरूप्यसत्तावानसाधारणो धर्मः प्रकृतिः । तावतैव सर्वसामञ्जस्यम् । यदि च पृथिव्या गन्धप्रागभावो रक्तप्रागभावो वा गन्धनाशो रक्तनाशो वा प्रकृतिरिति प्रयोगस्तदा - स्वसम्बन्धिनि प्रतियोगिसजातीयासामानकालिकस्य विद्यमानस्य नाशस्य प्रागभावस्य चाप्रतियोगी तादृश: ( असाधारणः ) धर्मः प्रकृतिरिति । तथाविधनाशप्रागभावप्रतियोगिनों न तथासंयोग-मत्सरज्ञानानां नाशप्रागभावे स्वसम्बन्धिनि विद्यमानो न प्रतियोगिजातीयासमानकालिकाविति न तेषामसंग्रहः । यद्वा स्वसम्बन्धितावच्छेदकसमनियतो धर्मः प्रकृतिः, समनियमघटकवाक्यद्वये प्रतियोगिवैयधिकरण्यं निवेशनीयम्; तच्च प्रतियोगिकालावच्छेदेन प्रतियोग्यधिकरणे वर्तमानेभ्योऽन्यत्वम् । तेन द्रव्यस्य संयोगः, संयोगवतो द्रभ्यत्वं प्रकृतिरित्यादौ नानुपपत्तिः । प्रतियोगिकालावच्छिन्नत्वस्य निवेशात् प्रागभावनाशयोर्न प्रकृतित्वम् प्रागभावनाशयोरत्यन्ताभावस्तत्कालावच्छेदेन तदधिकरणे न वर्तमान इति तयोर्न सम्बन्धितावच्छेदकव्यापकत्वम् । चित्ररूपाद्यनभ्युगमाद्देशिकाव्याप्यवृत्तॆगंत्वादेरत्यन्ताभावस्य प्रतियोगिकालेऽपि सत्त्वान्न व्यापकत्वहानि: । चित्ररूपाभ्युपगमे

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216