________________
युवा कराक्रान्तमहीभुदुच्चकै - रसंशयं सम्प्रति तेजसा रविः" ( शिशुपालवधे प्रथमसर्गे )
-
तृतीयार्थप्रकाशः
इत्यत्र 'वपुषा चतुर्भुज:' 'मुखेन त्रिलोचन' इत्यादिप्रयोगा अप्युपपद्यन्ते । तत्र अवयवस्य नाशस्वरूपापचयस्येवोपचयस्यापि विकारत्वमेवेतीह तृतीययोरुपचयोऽर्थः । स च प्रयोज्यत्वेन भुजचतुष्टयसम्बन्धेऽन्वेति ।
वस्तुतस्तु विकारस्य तृतीयार्थत्वं सर्वत्रेषु न प्रतिभासत इति स्वमतोक्तं प्रकारार्थत्वमेव व्यापकतया समादरणीयम् ।
1
वपुषा चतुर्भुज इत्यत्र चतुर्भुजशब्दस्य भुजचतुष्टयसमवेतोऽर्थः । प्रकारश्च तृतीयार्थोऽभेदेन सम्बन्धेनान्वेतीति वपुः प्रकाराभिन्नभुजचतुष्टयसमवेतः शिशुपालो बाल इतिरूपेणान्वयबोधो बोध्यः । एवं त्रिलोचनशब्दस्यापि लोचनत्रयतमवेतोऽर्थः प्रकारश्च तृतीयार्थोऽभेदेन त्रिलोचनपदार्थेऽन्वेति । एवम् 'उदरेण पिचण्डिलः' वर्णेन लोहित, इत्यादिप्रयोगा अपि प्रकारार्थतयैवोपपादनीयाः । यद्यप्यारव्याग्रहणस्य प्रसिद्धिपरिग्रहार्थत्वोक्तेरेवमादयः प्रयोगा लोके न बहुतरप्रयुक्ता इत्यसिद्धा इवाभान्ति, तथाऽपि महाकविप्रयोगेषु तत्र-तत्रोपलभ्यमानत्वान्नाप्रसिद्धत्वम् ।
प्रकृतमनुसराम: - 'शिरसा खल्वाट इत्यत्र केशरहितकपालवान् खल्वाटशब्दार्थः । तत्र च शिरः प्रकारस्याभेदेनैवान्वयः शिरःप्रकार विशेष केशरहित कपालवानितिबोधात् । प्रकृत्या दर्शनीयः । अत्र दर्शनीयत्वमदर्शनीयत्वञ्च सौन्दर्यासौन्दर्यरूपम् प्रकृतिप्रकार एव ।
प्रकृतिपदार्थविचारः ।
प्रकृतिपदार्थस्तु स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगितानबच्छेदकधर्मवान्- असाधारणो धर्मः । भवति च सतो जातिः प्रकृतिरित्यत्र जात्यादिस्तथाभूतः । असाधारण्यविशेषणात् घटस्य गुणो जातिर्वा प्रकृतिरिति न प्रयोगः ।
哎
कम्बुग्रीवादिमत्त्वं घटस्य प्रकृतिरिति प्रयोगश्च भवति । कम्बुग्रीवादिमत्त्वस्य तदसाधारणधर्मत्वान् । जलस्य शैत्यं पृथिव्या गन्धः, तेजस ओष्ण्यं प्रकृतिरित्यादी शैत्यगन्धीयानां संग्रहाय स्थूलकालावच्छिन्नत्वं स्वाश्रयनिष्ठात्यन्ताभावे विशेषणं देयम् । यदि च संयोगो द्रव्यस्य, मत्सरः खलस्य, चैतन्यमात्मनः प्रकृतिरित्यादिप्रयोगः प्रामाणिकस्तदा देशान वच्छिन्न विशेषणतया स्वाश्रये स्थूलकालावच्छेदेन वर्तमानस्यात्यन्ताभावस्य प्रतियोगितानवच्छेदकधर्मवान साधारणो धर्मः प्रकृतिरिति । द्रव्ये वृक्षादो मूलाद्यवच्छेदेन संयोगस्य, खले मत्सरस्य आत्मनि ज्ञानस्य घटाद्यवच्छेदेन स्थूलकालावच्छेदेन वर्तमानोऽप्यत्यन्ताभावो न देशानवच्छिन्नविशेषणतयाऽस्तीति न तेषामसंग्रहः ।
वस्तुतस्तु भूयः कालिकस्वाश्रयनिरूप्यसत्तावानसाधारणो धर्मः प्रकृतिः । तावतैव सर्वसामञ्जस्यम् । यदि च पृथिव्या गन्धप्रागभावो रक्तप्रागभावो वा गन्धनाशो रक्तनाशो वा प्रकृतिरिति प्रयोगस्तदा - स्वसम्बन्धिनि प्रतियोगिसजातीयासामानकालिकस्य विद्यमानस्य नाशस्य प्रागभावस्य चाप्रतियोगी तादृश: ( असाधारणः ) धर्मः प्रकृतिरिति । तथाविधनाशप्रागभावप्रतियोगिनों न तथासंयोग-मत्सरज्ञानानां नाशप्रागभावे स्वसम्बन्धिनि विद्यमानो न प्रतियोगिजातीयासमानकालिकाविति न तेषामसंग्रहः ।
यद्वा स्वसम्बन्धितावच्छेदकसमनियतो धर्मः प्रकृतिः, समनियमघटकवाक्यद्वये प्रतियोगिवैयधिकरण्यं निवेशनीयम्; तच्च प्रतियोगिकालावच्छेदेन प्रतियोग्यधिकरणे वर्तमानेभ्योऽन्यत्वम् । तेन द्रव्यस्य संयोगः, संयोगवतो द्रभ्यत्वं प्रकृतिरित्यादौ नानुपपत्तिः । प्रतियोगिकालावच्छिन्नत्वस्य निवेशात् प्रागभावनाशयोर्न प्रकृतित्वम् प्रागभावनाशयोरत्यन्ताभावस्तत्कालावच्छेदेन तदधिकरणे न वर्तमान इति तयोर्न सम्बन्धितावच्छेदकव्यापकत्वम् । चित्ररूपाद्यनभ्युगमाद्देशिकाव्याप्यवृत्तॆगंत्वादेरत्यन्ताभावस्य प्रतियोगिकालेऽपि सत्त्वान्न व्यापकत्वहानि: । चित्ररूपाभ्युपगमे