________________
स्वाद्यर्थप्रकाशे
एतद्विहित- तृतीया च यथायोगं यथाविवक्ष वा नानार्थिकेति विचारकाः । ते चार्थाः प्रयोगवशादेवानुगन्तव्याः । प्रकृत्या दर्शनीय इत्यत्र प्रकृतिपदोत्तरतृतीयायाः तादात्म्यमर्थः तच्चापरपदार्थतावच्छेद केऽन्वयितावच्छेद के वाऽन्वेति । एवं च प्रकृत्यभिन्नदर्शनीयत्ववानित्यर्थः । 'प्रायेण वैयाकरणः इत्यत्र प्रति बाहुल्येन ज्ञानविषयतां गच्छतीति प्रायः, तदभेदवान् वैयाकरण इत्येवं शाब्दबोघः । गोत्रेण गार्ग्य इत्यत्रापि तृतीयायास्तादात्म्यमेवार्थ: ।
तस्यां तु 'वस्तुतस्तु' - इत्यादिनोक्तः कल्पोऽनुसरणीयः इति सागोत्र्यनिवृत्तिरपि धर्मशास्त्रातिदेशादेव ततश्च प्रकृतिपदार्थविचारः संक्षेपेण । वंशप्रवर्तक पुरुषोत्तरकालिक - स्वारम्भकशुक्रपरमाणुभिः परम्परयारभ्यमाणत्वरूपगोत्रत्वविरहेऽपि न क्षतिः । कन्यादानात्पूर्वं तस्याः पितृसगोत्रत्वेऽपि तदुत्तरं तस्या गोत्रपरिवर्तनात् । अत एव कन्यादानवाक्ये पितृगोत्रोच्चारणमेव । ततः परञ्च तत्र पतिसगोत्रत्वव्यवहार एव । स च धर्मशास्त्रकृतातिदेशादिति गौण इत्युक्तम्, एवं च गोत्रेण गार्ग्य इत्यत्र गार्ग्यपदार्थकदेशे गर्गापत्यत्वे-गर्यारम्भकशुक्रावयवपरमाणुपरम्परारम्यत्वे गोत्रपदार्थाभेदान्वयः । तथा च प्रवर्तकपुरुषारम्भकशुक्रावयवारब्धत्वाभिन्नं यद्- - गर्भारम्भकशुक्रावयवा रब्धत्वं तद्वानिति बोध: ।
८६
अथ गोत्रपदार्थविचारः
गोत्रपदार्थस्तु वंशप्रवर्त्तकः पुरुषो ब्रह्मऋषिः । वंश - पदार्थस्तु प्रवर्त्तकस्याप्रवर्तकस्य वा पुरुषस्योत्तरकालिक: स्वारम्भकशुक्रपरमाणुभिः परम्परयाऽऽरम्यमाणः । उत्तरकालिकत्वनिवेशात् पराशरस्य वंशो वसिष्ठ इति न प्रयोग:, किं तु वसिष्ठस्य पराशर इति । प्रवर्तकशब्दार्थस्तु - दर्शितवंशत्वस्वरूपशक्यसम्बन्धेन स्वसंज्ञाशब्दस्य निरूढोपचारकः । तथा निरूढोपचारका यथा- गौतमाः, गर्गाः, शाण्डिल्या इत्यादी गौतमादयः पुरुषाः स्ववंशे संज्ञोपचारकाः । ब्रह्मऋषि शब्दार्थस्तु ऋषिस्वरूपो ब्राह्मणः । वंशमात्रार्थकत्वे तु चैत्रमंत्रगोत्रा एते इति प्रयोगापत्तिस्तद्वारणायोपात्तेऽपि प्रवर्त्तकत्वे विशेषणे, एते रघवो, यदवः, कुरवो, रघुयदुकुरुगोत्रा एतं इति प्रयोगवारणाय ब्रह्मर्षित्वं विशेषणम् । न च दर्शितप्रयोगवारणाय ब्राह्मणत्वमेव विशेषणमस्तु किमृषित्वनिवेशेनेति वाच्यम् यतः दर्शितोपचारकत्वेऽपि न ब्राह्मणत्वमात्रं तन्त्रम् तथा सति प्रभाकराः कुमारिला उदयना एते इति प्रयोगप्रसङ्गः । किन्तु ऋषित्वं तन्त्रम्, तदर्थमेवात्र तत्प्रदर्शनम् । वस्तुतो गोत्रलक्षणे न तन्निवेशः । पत्ल्यां पतिसागोन्यव्यपदेशो गौण: धर्मशास्त्रातिदेशात्; पितृ
एवं 'नाम्ना सुतीक्ष्णश्चरितेन दान्तः' इत्यत्र नामपदोतरं तृतीयाऽप्येतद्विहितैव । तस्या अपि तादात्म्यमेवार्थः । सुतीक्ष्णपदस्य सुतीक्ष्णपदप्रतिपाद्ये लक्षणा । नाम वाचकं पदम् चरितमाचारस्य प्रयत्नस्य विषयः । दम इन्द्रियनिग्रहादिः । तथा च नामाभिन्न सुतीक्ष्णपदप्रतिपाद्यः, चरितान्निदमशील इति बोध: । सुतीक्ष्णपदयोगार्थेन दमस्य विरोधस्तु ध्वननीयो न श्रीतः । इदं हि पद्य भट्टि - काorer पूर्ण पद्यमित्थम् -
“हविर्भुजामेघवतां चतुर्णां
मध्ये ललाटं तपसप्तसप्तिः ।
तपस्यत्यपरस्तपस्वी
असौ नाम्ना सुतीक्ष्णश्चरितेन दान्त" इति ।
aushadषु चरन्तं मुनिजनपरिचयशील रामचन्द्र ं प्रति कस्यापीयमुक्तिः । सुतीक्ष्णनामा महर्षिः पञ्चाग्निव्रतमाचरन्नासीत्, तद्धि व्रतं चतुर्दिक्षु वह्नि प्रज्वाल्य मध्ये स्थित्वा सूर्यातपस्थेन क्रियते । तथा च एधवतां काष्ठसमिद्धानां चतुर्णाम् हविर्भुजां वह्नीनाम्मध्ये ( स्थितः ) ललाटं तपः सप्तसप्तिः सूर्यो यस्य तथाभूतोऽसावयमपरः तपस्वी तपस्यति यश्च नाम्नव 'सुतीक्ष्णः ' चरितेन तु कृतेन्द्रियदम इति । अत्र सुतीक्ष्णस्य दान्तत्वं विरुद्धमिव प्रती --