Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ शतार्थविवरणे एतौ एनयोर्वा 'रलयोरैक्यात् ' लम्भः- प्राप्तिर्यस्मात् तस्य सम्बो० हे परिग्रहारम्भ ! । 'रलयोरैक्यात्' आ-समन्तात् यो लयो-ध्यानविशेषस्तस्मिन् आलये हे मग्न-हे लीन! । दरितान्-चकितान् करोति णिजि क्विपि दरित् , ईदृशो यो र:-स्मरः, तत्र ऊर्दया, तया ऊनोहीनो यः स ऊनः-निर्दयः, ईदृशः परः-शत्रुर्यः सः, तस्य सम्बो० हे दरिद्रोनपर-हे कामनिर्दयशत्रो ! हे जिन ! भवान् युः-श्रीभूमेः जगत इत्यर्थः । परान्-वैरिणः सु-अतिशयेन, 'अयञ् गतौ' 'गत्यर्था ज्ञानार्था' इतिवचनात् शतृप्रत्यये स्वयन्-अतिशयेन विदन् जानन् आस्त-अभवदित्यर्थः । 'यमा यपेऽस्येति सूत्रेण स्वयमित्यस्य स्वयन्नितिसिद्धम् । केन-सुखेन, थो-भयत्राणं (यत्र तत् )यथा स्यात्तथा। कथमिति क्रियाविशेषणम् । भवान् किंवि० ? 'मः शिवे विधौ चन्द्र' इत्येकाक्षरवचनात् मः-चन्द्रः,-तस्य भार्या इतिवाक्ये 'भार्याधवाद्योगा'दिति ङ्यां च मी-रोहिणी, तस्यां 'शुर्निशाकरः' इतिवचनात् शुः-चन्द्रः जन्मसमये यस्य स मीशुः-'उत्तरसाढारोहिणीमियसीस' इतिवचनात् श्रीअजितजिनइत्यर्थः। तथा अ-कृष्णः, तद्वत् रलयोरैक्यात् ली-लीनता-एकत्राऽवस्थानं यत्र सः अलीः, ईदृशः कस्य-पानीयस्य ऋतु:वर्षाकालो विहाराभावात् येषां ते अलीकर्तवः-साधव इत्यर्थः । वर्षाकाले हि साधवो यथा न विहरन्ति तथा कृष्णोऽपीति तदुपमा । ततस्तेषां मध्ये मी-प्राग्व्याख्यानवत् रोहिणी, तस्याः ईश्वरः-पतिः, सः मीश्वरः-चन्द्र इत्यर्थः । ततः अलीकर्तुमीश्वरः-साधुचन्द्रः इत्यर्थः । ततः कर्मधारये मीश्वलीकर्तुमीश्वरः ।।५।।
इत्यर्थत्रयेण श्री अजितजिन व्यावर्ण्य श्रीसम्भवजिन वर्णयति
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120