Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरत्नोच्चयवर्णनम् ]
१०५
'ऋ पृथिव्यां देवमातरी ति महीपवचनात् ऋ-पृथिवी, तस्याः युःश्रीपृथिव्या इत्यर्थः । कस्य--आत्मनः, थो-भारः, 'थो भवेद् भयरश्रणे भूधरे च तथा भारे' इति सुधाकलशवचनात् तं कथं-आत्मभारं 'राङ्क दाने'शतरि रान्–दददित्यर्थः । आस्त-आस्ते स्मेत्यर्थः। स भवान् किंवि० ? अकं-दुःखं करोति णिजि क्विपि अग्-दुःखकृत , नकारस्य निषेधार्थत्वात् न अग्-अदुःखकृदित्यर्थः-सुखकृदिति भावार्थः । स भवान् पुनः किंवि० ? ईश्वरो-नाथो विद्यतेऽस्येति ईश्वरीसनाथः इत्यर्थः ॥१०३॥
द्वादशं स्वप्नं व्यावर्ण्य रत्नोच्चयं वर्णयतिपरिग्रहारम्भमग्नाऽस्तारये ! युः कथं परान । स्वयं दरिद्रो न परमीश्वरी कर्तुमी श्वरः ।।१०।।
व्याख्या-ग-व्यञ्जनगकारस्तत्र तस्य वा, रं-रेफ हन्ति--विनाशयति डप्रत्यये ग्रहः, ईदृशः चित्रत्वादनुस्वाराभावे अरभशब्दो यत्र सः ग्रहारभ 'गरम' इतिशब्दः सिद्धः । 'गरभस्तु गर्भो भ्रूण' इत्यभिधानचिन्तामणिवचनात् गरमा-गर्भ इत्यर्थः । तथा मं-मकारं अजति-वर्णक्रमात् गच्छति यः स मग्यकारः इत्यर्थः । तेन युक्तो यः नो-नकारः, तत्र अस्त शब्दो यत्र स मग्नास्तः 'न्यस्त ' इति जातं परिभूमि'रित्युणादिवचनात् परि:-पृथ्वी, तस्याः यो ग्रहारभःप्रागुक्तव्युत्पत्त्या गर्भः रत्नरूपः सर्वंसहा रत्नगर्भतिवचनान् तस्य यः मग्नास्ता-प्रागुक्तयुक्त्या न्यस्ता-भूमौ स्थापिता, ईदृशी रलयोरक्यात् आलि:-श्रेणिः सा परिग्रहारम्भमग्नास्तालि:-पृथ्वीगर्भन्यस्तश्रेणिः, तस्याः सम्बो० हे परिग्रहारभमग्नास्ताले-हे रत्नोचय ! । तथा 'आ श्रि
For Private And Personal Use Only

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120