Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
[शतार्थविवरणे
नेऽव्ययः । भवान् 'अः कृष्ण' इतिवचनात् कार्ये कारणोपचारात ईकर्तु-कृष्णीकर्तुं उपलक्षणत्वात् बलदेवादिकर्तुं ईश्वरोऽस्ति-विभुररतीत्यर्थः । भवान् किं कुर्वन् ? के-सुखं तथा थो-भीत्राणं समाहारद्वन्द्वे कथं-सुखभीत्राणं 'राङ्क दाने 'शतरि रान्-दददित्यर्थः । कथं किंवि० स्वस्मिन् यातीति डप्रत्यये स्वयः, तत् स्वयं-आत्मगमित्यर्थः। भवान् पुनः किंवि० ? नदरिद्रः-नकारस्य निषेधार्थत्वत् अदरिद्रःश्रीमानित्यर्थः, रत्नादिमयत्वात् । ईयते-गच्छति क्विपि ईगच्छन्, शसयोरैक्यात् स्वरः-देवदुन्दुभ्यादिशब्दो विद्यतेऽस्मिन्निति ईस्वरी । कथं पर-दूर यावत् 'परो दूरान्यश्रेष्ठशत्रु'ष्वितिवचनात् दूरगामिदेवदुन्दुभिस्वरसंयुक्तः देवानां आलय इत्यर्थः ॥१२॥
द्वादशे स्वप्ने विमानं वर्णितम् । 'सागर-विमाण-भवण-रयणुच्चयसिहिं चेतिवचनात् क्वचित् पुनस्तत्रैव भवनमप्यस्तीति तदेव वर्ण्यते
परिग्रहाम्भमग्नास्ताऽऽरये युः कथं प! रान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥१०॥
व्याख्या-रलयोरैक्यात् आलयो-भवनं, तस्य सम्बो० हे आलय-हे भवन ! । पः-प्रौढः, विस्तीर्णत्वात् , तस्य सम्बो० हे पहे प्रौढ ! । 'इ'इत्यामन्त्रणे । सु-शोभना, आ-श्रीर्यस्य यस्मिन् वा सः स्वः, तस्य सम्बो० हे स्व ! । यं भवन्तं कर्तु-निर्मातुं प्रारब्धं वा, दरिद्रः पुमान् ईश्वरो-विभुन स्यात् । य किंवि०? परिग्रहः-परिकरः दारा वा, तथा आ-श्रीः, एषां रलयोरेक्यात् लम्भः-प्राप्तिर्यस्मिन् स परिग्रहालम्भः, तं परिग्रहालम्भम् । यं पुनः किंवि० ? पर-श्रेष्ठ, यत्तदोर्नित्यसम्बन्धात् हे आलय ! स भवान् ई-श्रीः, तया युक्ता
For Private And Personal Use Only

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120