Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
[शतार्थविवरणे
वचनात् उशब्देन नेत्राणि यस्य तत् युः । कोऽर्थः ? सरसि कमलदलानि भवन्ति, तानि तस्य नेत्रतुल्यानि भवन्तीति भावार्थः। चित्रत्वाद्विसर्गाभावः । त्वं पुनः किंविशिष्टं ? कस्य-पानीयस्य, 'थः पुंस्यूमिगिरीन्दु 'विति नानार्थ रत्नमालावचनात् थाः-उर्म यो यत्र तत् कथम् । त्वं पुनः किंवि०? ' ईकारोऽब्जदले लक्ष्म्या मितिनानार्थरत्नमालावचनात् ई-अब्जदलं, तत्र शु-शोभनाः रलयोरैक्यात् अलिनो-भृङ्गा यत्र ईश्वलि । कोऽर्थः ? सरसि कमलानि भवन्ति, तेषु च दलानि, तेषु भृङ्गा भवन्तीति भावार्थः। 'ई' प्रत्यक्षेऽव्ययः 'ई' पादपूरणे च । सुवत् शुशब्दोऽपि तालव्यान्तोऽस्ति 'शुनासीर' इत्यादौ दृश्यते च ॥१००॥
सरो वर्णयित्वा सागर वर्णयतिपरिग्रहारम्भमग्नास्तारये युः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥१०॥
व्याख्या-' उशब्दः शङ्करे तोये तोयधौ धरणीधर' इति विश्वशम्भुवचनात् ई-श्रीः, तया युक्तः उ:-समुद्रः, स युः-श्रीसमुद्रः । 'तारो निर्म लमौक्तिक' इत्यनेकार्थवचनात् ताराणां-निर्मलमौक्तिकानां, ई-लक्ष्मीः, तया तारया-निर्मलमौक्तिकलक्ष्म्या, परान्अन्यान् , ईश्वरीकर्तुं,-श्रीपतीकर्तु, ईश्वरः-प्रभुवर्तते । युः-श्रीसमुद्रः किंवि० ? न दरिद्रः-नकारस्य निषेधार्थत्वात् अदरिद्रः-श्रीमानित्यर्थः, लक्ष्मीजनकत्वात् । युः पुनः किंवि० ? कस्य-पानीयस्य 'थः पुंस्यूमिगिरीन्दुष्वि 'तिनानार्थरत्नमालावचनात् थः-उर्मिः, तं कथं-पानीयकल्लोलं प्रति शसयोरैक्यात् 'टोश्वि गतिवृद्धयो'रिति
For Private And Personal Use Only

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120