Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
[ शतार्थविवरणे
धर' इति विश्वशम्भुवचनात् उ:-सागरः, स युः-बुद्धिसागरः इत्यर्थः । तथा याशब्दः श्रीपर्यायः । ततः यां-श्रियं, ईयते-गच्छति क्विाप येः-श्रीयुक्तः इत्यर्थः । येश्वासौ युश्च येयुः-श्रीबुद्धिसागरः । चित्रत्वाद्विसर्गाभावे न:-अस्मान् ‘पलं मांसं पलं मानं पलो मूर्खः पला तुले त्यनेकार्थध्वनिमञ्जरीवचनात् रलयोरैक्याज पलान्-मूर्खान तथा चकाराध्याहारात् परिग्रहारम्भमग्नान् चित्रत्वादनुस्वाराभावे रलयोरैक्यात् ' अली भूषा-पर्याप्ति-निवारणेषु' इति वचनात परोक्षायां च आल-निवारयामास । कोऽर्थः ? परिग्रहारम्भमग्नतानिवारणेन दीक्षागुरुः, तथा मूर्खतानिवारणेन ज्ञानगुरुश्चायं कवेरित्याशयः । येयुः किंवि० ? ' ता महीलदम्यो' रितिमहीपवचनात ता-पृथ्वीतुल्यः, सर्वसहत्वात् । येयुः पुनः किंवि० ? दरिद्रःपङ्कतिरथन्यायात् अकिञ्चनः-निर्ग्रन्थ इत्यर्थः । येयुः पुनः किंविशिष्टः ? परं-अन्य', रलयोरैक्यात् पलं-मूर्ख वा 'ईकारोऽब्जदले लक्ष्म्यां वाण्या मिति नानाथरत्नमालावचनात् ई-वाग इत्यर्थः, तस्या ईश्वरः-पतिः स ईश्वरो-वागपतिरित्यर्थः । अवागीश्वर ईश्वरी कर्तुवागीश्वरीकतु ईश्वरो-विभुरित्यर्थः । पर-पलं वा किं विशिष्टं ? स्वस्मिन् याति-गच्छति डप्रत्यये स्वयः-आत्मगः, तं स्वयं । कथमिति सम्भवेऽव्ययः ॥१०६।।। ___श्रीमत्तपागच्छाधिराज-भट्टारकपुरन्दर-श्री ६ श्रीहीरविजयसूरीश्वरराज्ये पं० कवि-कविकविचक्र-चक्रचक्रवर्तिवर्तिपण्डित-श्री ६ श्रीबुद्धिसागरगणिशिष्य-पं० श्रीमानसागरगणिकृतं समाप्तं शतार्थविवरणमिति ।
For Private And Personal Use Only

Page Navigation
1 ... 114 115 116 117 118 119 120