Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्यापनम्। यो गर्भगोऽपि जननीजठरे प्रभाव प्राग्भारपूरिततया जनवृन्दजातम् । (शाताशिवं प्रविदधेऽनुपमो जिनेशः, सच्छान्तिदो भवतु शान्तिजिनः सदा वः ॥१॥ इन्दुं विलोक्य दिवसे गतकान्तिभारं, राहोर्भयं प्रतिदिनं नियतं धरन्तम् । ग्रस्तं च तेन विगतप्रभमाश्रितो य मेणः सदोदयधरं स जिनः श्रिये स्तात् ॥२॥ स शान्तिनाथो भवभीतिभेत्ता, गर्भाद्विधाता जगतोऽपि शान्तः । भूयात्सदा संयममार्गदेष्ट्र-शास्त्रार्थदर्शी भविनां शुभानाम् ॥३॥ अर्हन्तो ज्ञानभाजः शिवपदपटवः शाश्वताः सिद्धवर्या, आचार्या मार्गभासः श्रुतगणनिचिताः पाठकाः संयमोत्काः । साधुश्रेष्ठाः सुदृष्टिर्मतिचरणयुतं सत्तपस्तन्नवते, सेव्याः सत्कार्यपान्था प्रतिदिनमनघा आर्हतैः शुद्धभावात् ॥४॥ सर्वेः स्तुत्यमतिश्रुतावधिमनःपर्यायसत्केवलै, भैदैः संवलितं बुधैर्नतिकृतं ज्ञानं तु यत् पञ्चधा । नन्द्याख्यं सकलाऽऽगमान्तरगतं सर्व समाराधितुं, शुक्लश्रीश्रुतपञ्चमीगतमधाच्छुद्धं तपस्तच्छ्येि ॥५॥ समग्रकर्मकल्मषक्षये पटु स्मृतं तपः, फलोन्मुखं भवेत् तकत् विधीयते तदाश्रितम् । महः स्वशक्ति ऋद्धितो विचिन्त्य चेतसेत्ययं, क्षणो व्यधायि तत् सदास्तिकाः सदा श्रयन्तु तम् ॥६॥ चत्ये यथा स्यात् कलशाधिरोपो, भुक्तः परं पूगफल दिदानम् । स्थालेऽक्षतानां च फलाधिरोप, उद्यापनं तद्वदिहास्तु सत्तपे ॥७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 117 118 119 120