Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० [ शतार्थविवरण श्वरीकर्तु-परमेश्वर विधातुमित्यर्थः । स्वप्ने केतु गृह्णन् स्त्रीजनः तीर्थकरं निष्पादयितु समर्थो भवतीति भावार्थः । त्वं किंवि० ? न दरिद्र:नकारस्य निषेधार्थत्वात् अदरिद्रः-मनोहर इत्यर्थः ॥९८।। ध्वजं वर्णयित्वा कुम्भं वर्णयतिपरिग्रहाऽऽरम्भमनास्ताऽऽरयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥९९|| व्याख्या-कश्चित् पुमान् जायां प्रति कुम्भस्वप्नमाहात्म्यं ब्रूते-- हे परिग्रह-हे. जाये ! । ' आकारस्तु घटे भाव ' इति नानार्थरत्नमालावचनात् आ-घटः, तस्य रलयोरेक्यात् लम्भ:-प्राप्तिः, तं आलम्भं स्वप्ने कुम्भप्राप्ति 'या' स्त्री आर-प्राप गता वा, यत्तदोर्नित्यसम्बन्धात् तस्याः ईश्वरः-प्राणेश्वरः, स्वयमात्मना, दरिद्रो-निःस्वो, न स्यात् किन्तु धनवानेव स्यादित्यर्थः । तस्या ईश्वरः किंवि० ? अगतिकुटिलं गच्छति किपि अग् । नकारस्य निषेधार्थत्वात् न अम्-अकुटिल:सरल इत्यर्थः । ईश्वरः पुनः किंवि० ? अस्ता, अः-कृष्णः, उपलक्षपात्वात् चक्रवादिः । तद्वत् स्तनति-साहसिकतया राजसभायां वदति क्विपि अस्ता। आलम्भं किंवि० ? कस्य-आत्मनः, थोभीत्राणं यस्मात् स कथः, तं कथं-आत्मनो निरुपद्रवताकारकमित्यर्थः। या स्त्री किंवि०? ई-लक्ष्मीतुल्येत्यर्थः, सर्वगुणोपेतत्वात् ॥९९।। कुम्भं वर्णयित्वा सरो वर्णयतिपरिग्रहारम्भममाऽस्तारये युः कथं परान् । स्वयं दरिद्रो ! न परमीश्वरी कर्तुमीश्वरः ।।१००॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120