Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
९८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ शता विवरणे
क्विपि अग्नाः, ईदृशः स्- व्यञ्जनसकारस्तस्य ता - श्रीः शोभा, तस्यै र - व्यञ्जनको यत्र शब्दे सः अग्नास्तारः स्रग् इति सिद्धम् । इह 'धुटो धुटि स्वेवे 'ति सूत्रेण विसर्गसकारलोपः । ततः अग्नास्तारः स्रग्, अये - शुभदैवे सति अर्थात् स्वप्ने दृष्टा सती 'आ विधातरि मन्मथ ' इति महीपवचनात् आ - कामः तथा 'आ श्रिया' मिति शिलोञ्छवचनात् आ-लक्ष्मीः तयोः रलयोरैक्यात् लम्भः- प्राप्तिः, तं आलम्भ - कामार्थप्राप्तिं कर्तुं ईश्वरी समर्था स्यात् । कोऽर्थः ? हे जाये ! स्रग्- पुष्पमाला, आशब्देन कामः, तथा लक्ष्मीशब्देन अर्थः, तयोः प्राप्तिं कर्तुं तथा चकाराध्याहारात् परान् - उत्तमपुरुषान्, कर्तुं - कार्ये कारणोपचारात् जनयितुं ईश्वरी - समर्था स्यात् । स्वयमात्मनेत्यर्थः । स्रु किंवि ०? न दरिद्रा - मनोहरेत्यर्थः । स्रग् किंवि० ? ' ईकारोऽब्दले लक्ष्म्या 'मिति नानार्थरत्नमालावचनात् ई-अजदलं, तदेव ' उकारः क्षत्रिये नेत्र ' इति नानार्थरत्नमालावचनात् उत्रं, यस्याः सा युः । आरम्भं किंवि ? परं श्रेष्ठम् । कथमिति सम्भवे ऽव्ययः । उ' इति सम्बोधनेऽव्ययः || १५ ||
2
L
जं वर्णयित्वा शशिस्वप्नं वर्णयति
परिग्रहारम्भमग्नास्ताऽऽरयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः || ९६ ||
व्याख्या – ' इन्द्रेभाश्वशुके 'त्यादिकाव्ये हरिः - चन्द्रः, तस्यायं अणि हारः, तं हारं - चन्द्रसम्बन्धिनं स्वयन्दरिद्रोनपरं स्वप्नं या स्त्री आर - लेभे, सा परान् - उत्तमपुरुषान् कर्तुं जनयितुं, ईश्वरीसमर्था स्यात् । शेषं प्रथमस्वप्नवत् व्याख्यानं बोध्यम् ||१६||
"
For Private And Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120