Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७ श्रीप्रवर्द्धमानपुरुषग्रहवर्णनम् ] खेदेऽव्ययः । ना पुन: किं कुर्वन् ? आरम्भरूपं थं-भार', 'राङ्क आदानेऽपी तिवचनात् शतरि रान्-आददानः। ना पुनः किंवि० ? युः-भीमो भीमसेनवत् अहंयुः-अहङ्कृत इत्यर्थः। ना पुनः किंवि० ? न दरिद्रः-नकारस्य निषेधार्थत्वात् अदरिद्रो-धनवानित्यर्थः । ना पुनः किंवि० ? 'ईश्वरः स्वामिनि शिवे मन्मथ' इत्यनेकार्थवचनात् ईश्वर:-कामः, सोऽस्यास्तीति ईश्वरी-कामी कामवानित्यर्थः । कोऽर्थः ? श्रिया प्रवर्द्धमानः पुरुषः प्रायः अगकुटिलगतिः स्यात् अहङ्कृतश्च अन्यां स्त्रियं कुरुते च इत्यादि पूर्वोक्तविशेषणश्च स्यात् । यदुक्तं च-'प्रवर्द्धमानः पुरुषस्त्रयाणामुपघातकः । पूर्वोपार्जितमित्राणां कलत्राणां च वेश्मना'मिति ॥६४।। प्रवर्द्धमानपुरुषं ब्यावर्ण्य अथ नवग्रहान् वर्णयतिपरिग्रहारम्भमग्नास्तारये युः कथं पराऽन् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥६५।। व्याख्या-उपसर्गवृत्तौ परिरित्यव्ययः पूजायां वर्तते । ततः परि-शोभनो, ग्रहः-परिग्रहः, तस्य सम्बो० हे परिग्रह-हे शुभग्रह ! भेषु-राशिषु मग्न आस्ते यः स किपि भमग्नाः। तारा-निर्मला, ई-श्रीः, तया तारया-निर्मलश्रिया हे पर-हे श्रेष्ठ ! त्वं परं-अन्यं, ईश्वरीकर्तुं ईश्वरः-प्रभुरसि, स्वयमात्मना । त्वं किंवि० ? न दरिद्रः'चत्तारि दुग्गया पन्नत्ता' इतिवचनात् देवेष्वपि दुर्गताः सन्तीत्यतः त्वं अदुर्गतः इत्यर्थः । त्वं पुनः किंवि० ? अ:-कृष्णः, स इवाचरति शतरि अन्-कृष्णतुल्य इत्यर्थः । यथा हि लोके कृष्णः सर्वं करोति तथा त्वमपीति तदुपमा । त्वं पुनः किंवि० ? ई-श्रीः, तया युक्त For Private And Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120