Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकेतुवर्णनम्] व्याख्या-ईर्गच्छन्-प्राप्नुवन् , ए:-एकारो यस्य स येः । तथा ई:-प्राप्नुवन् , उ:-उकारो यस्य सः युः, ईदशः यथाक्रमं कःककारः, तथा थकारः परः-उत्तरो यस्य स थपरः-तकार इत्यर्थः । स यस्य स येयुकथपरः । कोऽर्थः ? ये इति एकारं प्राप्तः ककारः। एवं के इति सिद्धम् । युरिति उकारं प्राप्तः थपरः-तकारः । एवं तुरिति सिद्धम् । एवं येयुकथपरः-केतुः तस्य सम्बो० हे येयुकथपर-हे केतो ! चित्रत्वाद्विसर्गानुस्वाराभावः 'नकारो जिनपूज्ययो' रिति विश्वलोचनतः नः-पूज्यः, ग्रहान्तर्वतित्वोत् तस्य सम्बो० हे न-हे पूज्य !। अ:-कृष्णस्तेन शिरस्छेदात् अस्ता-क्षिप्ता, आ-समन्तात् आ-श्रीर्वा तथा उणादिवचनात् रा-दीप्तिर्यस्य स आस्तारः। अथवा अस्तं-क्षिप्तं, आर-अरिसमूहो येन सः अस्तारः, तस्य सम्बोधन हे आस्तार ! हे अस्तार ! वा । हे द-हे शुभाशुभफलदायक ! भवान् परि-समन्तात् , ग्रहाणां 'आरम्भस्तु वधदर्पयो रित्यनेकार्थवचनात् आरम्भो-दर्पः, तं परिग्रहारम्भ-सामस्त्येन ग्रहदएँ, स्वस्मिन् यातीति डप्रत्यये स्वयं-आत्मगतं, कर्तु-विधातु, ईश्वरःप्रभुरित्यर्थः । भवान् किंवि० ? अकते-कुटिलं गच्छति-राशिषु विपरीतं चरति क्विपि अग् । अथवा अकं-दुःखं करोति णिजि क्विपि अग्-दुःखकृत्, कूरग्रहत्वात् । भवान् पुनः किंवि० ? आ-श्रीः, तया अ-कृष्णः, स इवाचरति शतरि आन्-श्रिया कृष्णतुल्य इत्यर्थः । भवान् पुनः किंवि० ? ऋ-भूमिः, तस्यां एति-गच्छति क्विपि रित् , ईदृशी उणादिवचनात् रा-दीप्तिर्यस्य सः रिद्रः। भवान् पुनः किंवि० ? 'नकारो जिनपूज्ययो रिति विश्वलोचनतः ना-कृष्णः, तस्य परवत्-शत्रुवत् मीनाति-हिनस्ति क्विपि परमी -शत्रुवद्विनाशकं, ईदृशं शु-शोभनं, अरिचक्र-सुदर्शनाभिधानं यस्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120