Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धीवरुणवर्णनम् ] तकारं, अस्यति-क्षिपति क्विपि अस्ताः, ईदृशः ऋ-ऋकारः, तथा अयेयुः-येयुः शब्दवर्जितः क-व्यञ्जनककारः, संज्ञाशब्दत्वात् कका-" रस्य न गत्वम् तथा अर्थ-थंवर्जितः, पः-पकारो यस्य नाम्नि सः अस्तारयेयुःकथंपः,-अमृपः-राक्षस इत्यर्थः । तस्य सम्बो० हे अस्तारयेयुःकथंप !-हे असृक्प ! । 'नकारो जिनपूज्ययो 'रिति विश्वलोचनतः नः-पूज्यः, न न:-अन:-अपूज्यः, पलादत्वात्, तस्य सम्बोव्हे अन-हे अपूज्य ! भवान् स्वे-आत्मीयास्तेषां 'यो वातयशसोः पुंसी 'ति विश्वलोचनतः यो-यशः, तं स्वयं-आत्मीयानां यशः कर्तु-विधातु, ईश्वरः-प्रभुः । भवान् किं कुर्वन् ? 'रलयो रैक्यात ' पलं-मांसं ' रात क्वचिदादानेऽपी'ति शतरि रान्-आददानः, परेषां पलं गृह्णानः । पुनःकिंवि० ? दानि-कलत्राणि, 'ऋ पृथिव्यां देवमातरी'ति महीपवचनात् ऋ-पृथिवी, तां यन्तिगच्छन्ति क्विपि रितः-मनुष्याः, तेषां 'रः तीक्ष्णे वैश्वानरे' इतिवचनात् र:-क्रूरः, सः दरिद्रः । पुनः किंवि० ? शु-शोभना अरा-देवा विद्यन्तेऽस्येति श्वरी । अथवा शु-शोभनः, 'रलयोरैक्यात् ' अली-वृश्चिकराशिः ‘अनुराधा नानीनुने' इतिवचनात् यस्य सः श्वली । नैर्ऋतस्य वृश्चिकराशिरित्यर्थः । 'ई' प्रत्यक्षेऽव्ययः ॥८६॥ नैर्मतं वर्णयित्वा वरुण वर्णयतिपरिग्रहारम्भमग्नाऽस्तारयेयुः कथं प! रान् । स्वयं दरिद्रोनपरमीश्वरी कर्तुमीश्वरः ।।८७॥ व्याख्या-उनशब्देन परः-प्रधानः, स उनपरः, ईदृशः तथा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120