Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे
इत्यर्थः । तत्र मग्नो-निमग्नः, तस्य सम्बो० हे परिग्रहारम्भमग्न ! अस्ताः-क्षिप्ताः-क्षयं नीताः, अरा-अमराः, उपलक्षणत्वादिन्द्रोपेन्द्रादयो, येन स अस्तारः, तस्य सम्बो० हे अस्तार ! ' यस्तु वाते यम' इति सुधाकलशवचनात् हे य-हे यम ! भवान् काः-आत्मानो जीवास्तेषां थो-भीत्राण तं कथं-जीवभीत्राणं, कर्तु-विधातु, न ईश्वरः-न प्रभुः। भवान् किंवि० ? ' ईर्भुवि श्रिया मिति महीपवचनात् ई-भूमिः, तस्याः तत्र वा युः-भीमोः भीमसेनवत् मृगयुःवधक इत्यर्थः । भवान् पुनः किंवि० ? परान्-आत्मव्यतिरिक्तान्, अन्तयति-विनाशयति क्विपि परान्-परविनाशक इत्यर्थः। भवान् पुनः किंवि० ? दरिणी-भयवती, द्रा-निद्रा, यस्मात् स दरिद्रः । भवान् पुनः किंवि ? ' ईश्वरः स्वामिनि शिव' इत्यनेकार्थवचनात् ईश्वरः-कामो विद्यतेऽस्मिन्निति ईश्वरी-कामीत्यर्थः । धूमोर्णास्त्रीयुक्तत्वात् । स्वयमात्मनेत्यर्थः। परं-श्रेष्ठं, यथा स्यात्तथा । परमिति क्रियाविशेषणम् ॥८॥
यमं वर्णयित्वा नैर्ऋतं वर्णयतिपरिग्रहारम्भमग्नाऽस्तारयेयुः कथंप ! रान् । स्वयं दरिद्रोनपरमीश्वरी कर्तुमीश्वरः ॥८६॥ __ व्याख्या- 'रलयोरैक्यात् ' पलं-मांसं, वपुषि विद्यते येषां ते पलिनः-मांसोपचितदेहा नरादयः, तेषां ग्रहो-ग्रहण', तन तस्य वा आरम्भ-उद्यमः, तत्र मग्नो-निमग्नः स परिग्रहारम्भमग्नः, तस्य सम्बो. हे परिग्रहारम्भमग्न ! । अस्त इतिशब्दस्य तं
For Private And Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120