Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीईशान-रामवर्णनम् ]
भीमो भीमसेनवत् ईश:-ईशान इत्यर्थः । हे न-हे पूज्य ! इत्याप बोध्यम् । परिग्रहाः-दाराः, तेषां आरम्भः-उद्यमः, तत्र ‘देवा विसयपसत्ता' इतिवचनात् मग्नो-निमग्नः, तस्य सम्बो० हे परिग्रहारम्भमग्न ! । सु आ-श्रीः यस्य स स्वः, तस्य हे स्व ! । 'रलयोरैक्यात्' दलानि-पत्राणि, विद्यन्ते येषां ते दलिनः-पत्रवन्तः, ईदृशा द्रवःद्रुमा यस्य स दलिदुः, तस्य सम्बो० हे दलिदो ! । देवानां वनानि सन्ति तेषु वृक्षाश्च ते पत्रवन्तः सन्तीतिभावः। भवान् परान्-वैरिणः 'रलयोरैक्यात् ' आल-निवारयामास · अली भूषापर्याप्तिनिवारणे'ष्वितिवचनात् । भवान् किं०? 'पशो यः स्यादिति सुधाकलशवचनाद् यं-पशुं 'रः तीक्ष्णे वैश्वानरे नर' इतिवचनात् रीकर्तु-नरीकर्तुं, ईश्वरः-प्रभुरित्यर्थः। कोऽर्थः ? अचिन्त्यशक्तित्वात् पशुं नरीकर्तुं समर्थ इत्यर्थः । भवान् किंवि०?आ-ईषत्, स्तनति-वदति महानुभावत्वात् स्तोकं जल्पतीति क्विपि आस्ता-महानुभावः । यतो महानुभावाः स्तोकमेव वदन्ति । यदुक्तं-' महुरं निउणं थोवं कजावडियं च अगव्यियमतुच्छ'मित्यादिः । भवान् पुनः किंवि० ? ई-श्रीः, तया ' उशब्दः शङ्करे तोये तोयधौ धरणीधरे' इतिविश्वशम्भुवचनात् उ:-कृष्णतुल्यः, स युः। 'ई सम्बोधनेऽव्ययः । कानां-जीवानां, थो-भीत्राणं यथा स्यात्तथा । कथमिति क्रियाविशेषणम् । भवान् पुनः किंवि० ? रमः-कामो विद्यतेऽस्मिन्निति रमी- देवा विसयपसत्ता' इति वचनात् कामीत्यर्थः । रमः काम इत्यनेकार्थेऽस्ति ॥९०।।
दिगपालान् वर्णयित्वा रामं वर्णयतिपरिग्रहारम्भमग्नाऽस्तारये! युः कथं परान् । स्वयं दरिद्रो नपरमीश्व ! री कर्तुमीश्वरः ॥९॥
For Private And Personal Use Only

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120