Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे व्याख्या-पः-प्रौढः, रो-वनं, विद्यतेऽस्येति परी-वजी इन्द्र इत्यर्थः, तं गृह्णाति स परिग्रहः-रावणः, इन्द्रनिग्रहकारित्वात् , तस्य । 'आरम्भस्तु वधदर्पयो रित्यनेकार्थात् आरम्भो-वधः, तत्र मग्नोनिमग्नो यः स परिग्रहारम्भमनः, तस्य सम्बोधनं हे परिग्रहारम्भमग्न ! । अस्तं-क्षिप्तं, आरं-अरिसमूहो येन स अस्तारः, ईदृशः 'यस्तु वाते यमे' इति वचनात् यः-पवनः, तस्याऽपत्यं यिः-हनुमान, पवनसुतत्वात् यस्य सः अस्तारयिः, तस्य सम्बो० हे अस्तारये ! । दं-कलत्रं, तदिव 'ऋ पृथिव्यां देवमातरी ति महीपवचनात् ऋ-भूमिः, तां एति-गच्छति सेवते वा क्विपि दरित्-भूधवः इत्यर्थः । तस्य सम्बो० हे दरित् ! । 'रः तीक्ष्णे वैश्वानरे नरे रामे वज्र' इति सुधाकलशवचनात् रो-रामः, तस्य सम्बो० हे र-हे राम ! 'ईर्भुवि श्रिया' मिति महीपवचनात् ई-भूः, सैव शसयोरैक्यात् स्वं-धनं, यस्य सः ईस्वः- भूपालो भूधनो भूभुगितिवचनात् भूधन इत्यर्थः । तस्य सम्बो० हे ईस्वः-हे भूधन ! भवान् कस्य-पानीयस्य 'थः पुंस्यूमिगिरीन्दु विति नानार्थरत्नमालावचनात् थाः-कल्लोलाः यत्र स कथः-समुद्रः, तं कथंसमुद्रं 'नो बुद्धौ ज्ञानबन्धयो'रितिवचनात् नपरं-बन्धनपर' कर्तु-विधातुं ईश्वरो-विभुरित्यर्थः। भवान् किंवि० ? ई-श्रीः, तया युक्तः उकारः क्षत्रिये नेत्रे हरमौलौ हरे हरा वितिनानार्थरत्नमालावचनात् उ:-कृष्णः, शैवमते रामस्य कृष्णावतारत्वादिति युः। भवान् पुनः किंवि० ? पाप्रौढा, उणादिवचनात् रा-दीप्तिः, तया अ:-कृष्णः, स इवाचरति शतरि अन्-कृष्णतुल्य इत्यर्थः । स परान् । भवान् पुनः किंवि० ? रस्य-रामस्य, भार्या री-सीता, तामेव ईयते-गत्यर्थानां ज्ञानार्थत्वात् जानाति सेवते वा क्विपि रीः । चित्रत्वाद्विसर्गाभावः । कथं किंवि०? सु-शोभनः, अ:-कृष्णः, तथा या-लक्ष्मीर्यत्र स स्वयः, तं स्वयम् ।
For Private And Personal Use Only

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120