Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे
सर्गाभावश्च । 'ई'इति पादपूरणेऽव्ययः ।।८८॥
वायु वर्णयित्वा वैश्रमणं वर्णयतिपरिग्रहारम्भमग्नास्तार ! ये युः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥८९।।
व्याख्या-परिग्रहो-रत्नरुक्मरजतादिः । तस्य य आरम्भ-उद्यमस्तत्र मनो-निमग्न आस्ते-तिष्ठति क्विपि परिग्रहारम्भमग्नाः । तस्य सम्बो०हे परिग्रहारम्भमग्नाः!। तां-श्रियं, राति-ददाति डप्रत्यये तारः-श्रीदः, तस्य सम्बो० हे तार-हे कुबेर ! भवान् ई-श्रीः, तया या-श्रिया, परान्-अन्यान् , ईश्वरीकर्तुं ईश्वरः-प्रभुः । भवान् किंवि०? स्वयमात्मना । न दरिद्रः । नकारस्य निषेधार्थत्वात् अदरिद्रः श्रीमानित्यर्थः । पर-श्रेष्ठमिति क्रियाविशेषणम् । भवान् पुनः किवि० ? ई-श्रीः, तदर्थ मित्रत्वात् उ-शङ्करो यस्य सः युः । कथमिति सम्भवेऽव्ययः । 'ई' इत्यामन्त्रणेऽव्ययः ।।८९।।
वैश्रमणं वर्णयित्वा ईशानमष्टमं दिगपालं वर्णयतिपरिग्रहारम्भमग्नास्तारये युः कथं परान् । स्व! यं दरिद्रो! न परमीश्व! रीकर्तुमीश्वरः ।।९०॥
व्याख्या-ईश् शब्द अवति-रक्षति विचपि ईशः, ईदृशः अकारो यस्य नाम्नि स ईश्वः-ईश इत्यर्थः । तस्य सम्बो० हे ईश्व-हे ईश ! । अनशब्दं पाति-रक्षति डप्रत्यये अनपः, तस्य सम्बोव्हे अनप! ईशशद्वाऽनशद्वयोः सन्धौ कृते हे ईशान ! इति सिद्धम् । अथवा
For Private And Personal Use Only

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120