Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 98
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [शतार्थविवरणे मीवत् ईर्गच्छन्-दूरीभवन् श-व्यजनशकारो यत्र सः मीश, ईदृशो क्रशब्दो यस्य नाम्नि स उनपरमीश्वरः। एवं रेफयोगे नकारस्य णत्वे वरुण इति सिद्धम् । तस्य सम्बो० हे वरुण ! । परि समन्तात् 'देवनस्तत्पणो ग्लह' इत्यभिधानचिन्तामणिवचनात् — रलयोरैक्यात्' ग्लहः-पाशकपणः, तस्य य आरम्भ - उद्यमस्तत्र मग्नो-निमग्नः यः सः तस्य सम्बो० हे परिग्लहारम्भमग्न ! । दुःखितानां क्रीडन न स्मृतिगोचरीभवतीति वरुणो ह्यत्यन्तसुखितत्वादक्षपणैः कृत्वा क्रीडतीति भावार्थः । अस्तः-अस्ताद्रिः, स एव 'रलयोरक्यात' आलयोवसतिर्यस्य सः अस्तालयः, तस्य सम्बो. हे अस्तालय ! 'ई' सम्बोधनेऽव्ययः । हे प-हे प्रौढ ! 'पः पाने पचने पथि प्रौढे चेति सुधाकलशः। दा-दानिनः, ये ऋर्देवमाता तां यन्ति-स्मरन्ति क्विपि रितो-देवा इत्यर्थः । तेषु राजते डप्रत्यये दरिद्रः, तस्य सम्बो० हे दरिद्र !। भवान् स्वं-द्रव्यं, या च-श्रीश्चेति समाहारे स्वयं-द्रव्यं श्रियं च कर्तुं ईश्वरः-प्रभुः । 'ई' इति प्रत्यक्षेऽव्ययः । भवान् किं कुर्वन् ? ई-श्रीः, तया युक्ता या 'ऋ पृथिव्यां देवमातरीति महीपवचनात् ऋ-भूमिः, तस्याः युः-श्रीभूमेः कं-नीरं, तस्मात् थाभी त्राणं, अथवा कं-सुखं, थो-भीत्राणं समाहारे कथं — रात दाने शतरि रोन्–दददित्यर्थः । जलोपसर्ग निवारयन्नित्यर्थः ॥८॥ वरुणं वर्णयित्वा वायुं वर्णयतिपरिग्रहारम्भमग्नास्ताऽऽरयेयुः क ! थं परान् । स्वयं दरिद्रो!न! परमीश्वरी कर्तुमीश्वरः ॥८८॥ व्याख्या-उणादिवचनात् परिः-भूमिः, तस्याः ग्रहो-ग्रहण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120