Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवायु-वैश्रमणवर्णनम् ] निर्बन्धानुग्रहेषु रणोद्यमे' इत्यनेकार्थवचनात् ग्रहोऽनुग्रहो यस्मात सः परिग्रहः, तम्य सम्बो० हे परिग्रह !। वातानुकूल्यादेव भूमौ निष्पत्तिरिति । 'आरम्भस्तु वधदर्पयो रित्यनेकार्थात् आरम्भोवधो विनाश इत्यर्थः । तत्र मग्नः-निपतितः, अस्तोऽस्ताद्रिः, उपलक्षणत्वात् पूर्वाद्रिप्रभृतयो यस्मात् स आरम्भममास्तः । तस्य सम्बो० हे आरम्भमन्नास्त ! । आ-समन्तात् , रयो-वेगो यस्य स आरयः । तस्य सम्बो० हे आरय ! 'ई' इति सम्बोधनेऽव्ययः । दरो-भयं विद्यतेऽस्यामिति दरिणी-भययुक्ता, कम्पमानत्वात् ईदृशी उणादिवचनात् द्रुः-वृक्षशाखा, यस्मात् स दरिद्रुः । तस्य सम्बो. हे दरिद्रो!। नकारो जिनपूज्ययो रिति विश्वलोचनतः हे न-हे पूज्य ! पवित्रत्वान् । 'कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकि'ष्विति सुधाकलशवचनात् हे क-हे वायो ! भवान् 'थो भीत्राणे महीधे चे'त्येकाक्षरवचनात् थं-महीधं, ई-श्रीः,तया युक्ता, 'ऋ पृथिव्यां देवमातरी तिमहीपवचनात् ऋ-भूमिः, तस्याः युः-श्रीभूमितः 'परो दूराऽन्यश्रेष्ठशत्रु'ष्वितिवचनात् पर-दूर', कर्तु-विधातुं, ईश्वरः-प्रभुरित्यर्थः । 'कल्पान्तकालमरुता चलिताचलेने तिवचनात् पवनेन पर्वता अपि दूरीक्रियन्त इतिभावः । भवान् किं कुर्वन् ? पाः-प्रौढाः, राः-वह्नयः, ते पराः तान् परान्-महावह्नीन् स्वयन् । सु-अतिशयेन, 'अयजू गतौ'गत्य
र्थानां प्राप्त्यर्थत्वात् अयन्-प्राप्नुवन्नित्यर्थः । मित्रत्वात् श्रयन्नित्यर्थः। यदुक्तं-'वनानि दहतो वह्वेः सखा भवति मारुतः। स एव दीपनाशाय कृशे कस्याऽस्ति सौहृद ।।१।। मिति । स्वयमित्यस्यानुस्वारस्य नत्वे स्वयान्नति सिद्धम् । भवान् किंवि०? शसयोरैक्यात् स्वरः-शद्रो विद्यतेऽस्मिन्निति स्वरी-शब्दवान् । अथवा स्वः स्वर्ग यावत् ईयतेगच्छति क्विपि स्वरीः, नतु वह्निवन्मनुष्यलोकव येव । चित्रत्वाद्वि
For Private And Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120