Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [शतार्थविवरणे ____व्याख्या-परिग्रहेषु-दारेषु, असते-दीप्यते क्विपि परिग्रहाःस्त्रीषु दीप्यमाना, ईदृशी रम्भा-इन्द्राणी यस्य स परिग्रहारम्भःइन्द्रः, इन्द्राणीपरिग्रहत्वात् । तस्य सम्बो० हे परिग्रहारम्भ-हे इन्द्र !। पः-प्रौढो, रो-वजूं, यस्य स परः, तस्य सम्बो० हे पर-हे वजिन् ! भवान् युः-श्रीदेवमातुः, केन-सुखेन, कं-सुखं वा, थो-भीत्राणं तत् कथं-सुखभीत्राणं परं-श्रेष्ठ, कर्तुं-विधातुं, स्वयमात्मना, ईश्वरः-प्रभुरित्यर्थः । भवान् किंवि० ? मग्नं-भावे तप्रत्यये मज्जनं नाम प्रथमः शृङ्गारः, उपलक्षणत्वाच्चारुचीरतिलकादयः । यदुक्तं-'आदौ मज्जन-चारुचीर-तिलक 'मित्यादि व्यक्तमेव । ततः तैः असते-दीप्यते किपि मग्नाः, ईदृशी ताहरिप्रिया, तस्या रलयोरैक्यात् आलयः-सद्म, तस्मिन् मग्नास्तालयेमज्जनादिशृङ्गारयुक्तायाः श्रियः सद्मनि । अ:-कृष्णः, स इवाचरति शतरि अन्-कृष्णतुल्यः, भ्रातृत्वात् । कृष्णो हि इन्द्रानुजः । ततस्तदुपमा । भवान् पुनः किंवि० ? नदरिद्रः । नकारस्य निषेधार्थत्वात् अदरिद्रः-श्रीमानित्यर्थः । भवान् पुनः किंवि० ? 'रः तीक्ष्णे वैश्वानरे नर ' इति सुधाकलशवचनात् रा-माः , न राः अराःअमर्त्याः, ई-श्रीः, तया शु-शोभनाः, अराः-देवाः विद्यन्तेऽस्येति स ईश्वरी ।।८३।। अर्थद्वयेन शक्रं व्यावर्ण्य वह्नि वर्णयतिपरिग्रहारम्भमग्नाऽस्तारये युः कथं प! रान् । स्वयं दरिद्रो ! न परमी श्वरी कर्तुमीश्वरः ॥८४॥ व्याख्या-अग्नशब्दे आ-समन्तात् , अस्तः-क्षिप्तः, अर्रेफरहित ईदृशः इ:-इकारो यत्र सः अग्नास्तारिः-अग्निरिति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120