Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे सः परमीश्वरी। कृष्णेन सुदर्शनचक्रेण छित्त्वा राहुः केतुश्च कृतः इति शैवमतमिति विशेषणसङ्गतिः ॥७९॥
परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ।।८०॥
व्याख्या-परिग्रहारम्भमग्नाः पुरुषाः परान् कथं तारयेयुः ? अपि तु न तारयेयुरित्यर्थः। तत्र दृष्टान्तमाह-स्वयं दरिद्रः पुमान् पर ईश्वरीकर्तुं ईश्वरो न भवति । मुख्योऽयमर्थः ॥८॥
अथ सुरं वर्णयतिपरिग्रहारम्भमनाऽऽस्ताऽऽर ! येयुः कथं प! रान् । स्वयं दरिद्रोनपरमीश्वरीकर्तुमीश्वरः ॥८१॥
व्याख्या-परिग्रहाः-दाराः, तैः यः ‘आ विधातरि मन्मथ' इति महीपवचनात् आः-कामः, तत्र मग्नो-निमग्नो यः ‘देवा विसयपसत्ता' इति वचनात् स परिग्रहारम्भमग्नः, तस्य सम्बो हे परिग्रहारम्भमग्न ! 'असी गत्यादानयोश्चेति चकारात् दीप्त्यर्थादसतेः क्विपि आः-दीप्यमाना, ता-श्रीर्यस्य स आस्तः, तस्य सं० हे आस्त ! । 'इ' इत्यामन्त्रणेऽव्ययः। ई-श्रीः, तया या-श्रिया हे प-हे प्रौढ !। ऋ-देवमाता तस्याः अपत्यं अणि आरः-ऋभवः देवः, तस्य सम्बो० हे आर !-हे देव ! । अथवा 'रस्तीक्ष्णे वैश्वानरे नर' इतिवचनात् रो-नरः, न रः अरः-अमर्त्यः, तस्य सम्बो० हे अर-हे अमर्त्य ! भवान् ई-श्रीः, तया युक्तो ऋ-देवमाता, तस्याः
For Private And Personal Use Only

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120