Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीराहुवर्णनम् ] निःस्वः, देवत्वात् । भवान् पुनः किंवि०? 'मः शिवे विधौ चन्द्रे शिरसी'त्येकाक्षरवचनात् मः-शिरः, पर:-प्रकृष्टश्चासौ मश्च परमः, सो विद्यतेऽस्मिन्निति परमी । राहोः केवलं शिर एवास्तीति भावः । भवान् पुनः किंवि० ? शुर्निशाकर' इत्येकाक्षरात् शुः-चन्द्रः, तत्र अरिवत्-अमित्रवत् ईयते-गच्छति क्विपि श्वरीः । चित्रत्वाद्विसर्गाभावः ॥७७॥ परिग्रहारम्भमन्नास्तारये युः कथं परान् । स्वयं द! रिद्रो! न! परमी श्वरीकर्तुमीश्वरः ॥७८||
व्याख्या-ग्रहो ग्रहण-निबन्धाऽनुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुन्तुदे' ॥११॥ इत्यनेकार्थवचनात् ग्रहोविधुन्तुदः, तस्य सम्बो० हे ग्रह-हे विधुन्तुद ! । भेषु-नक्षत्रेषु, मग्नः-निमग्नः यः चन्द्रः, तस्य अस्ता-क्षिप्ता आ-श्रीः, येन सः भमग्नास्ताः, तस्य सम्बो० हे भमग्नास्ता ! हे द-हे स्त्रीग्रह ! उक्तं च-सोम-सोमजमन्दा हि भृगुपुत्रास्तु योषित' इति । ऋर्देवमाता तां स्वमातृत्वात् एति-स्मरति क्विपि रित् । अथवा ऋ-भूमिस्तां एति-गच्छति क्विपि रित्-भुवं प्रविशन् । 'रु:-सूर्य' इति सुधाकलशात् रुः-सूर्यो यस्मात् स रिदुः, तस्य सम्बो० हे रिद्रो!। राहुभयात् सूर्यः स्वमातरं स्मरति भुवं वा प्रविशतीत्यर्थः । 'नस्तु निर्बन्ध-बुद्धयो' रित्येकाक्षरवचनात् नः-सहृदय इत्यर्थः। यदुक्तं-' एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहुः। यः सकललघिमकारणमुदरं न
For Private And Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120