Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ शतार्थविवरणे युक्तः ‘शुर्निशाकर' इत्येकाक्षरवचनात् शुर्निशाकरः, तस्मिन् अरिवत्-शत्रुवत् ईयते-गच्छति क्विपि ईश्वरीः। चित्रत्वाद्विसर्गाभावः । स्वयमात्मनेत्यर्थः ॥७॥
शनि व्यावर्ण्य स्वर्भानुं वर्णयति
परिग्रहारम्भमग्नास्ताऽऽरयेयुः कथं परान् । स्वयं दरिद्रो नपरमी श्वरी कर्तुमीश्वरः ॥७७॥
व्याख्या-नकारो जिनपूज्ययो रिति विश्वलोचनतः नः-कृष्णः, तेन अस्त:-क्षिप्तः 'कंस-केशि-मुराः साल्व-मैन्द-द्विविद-राहव' इतिवचनात् यः स नास्तः, तस्य सम्बो० हे नास्त-हे राहो ! 'आरो रीरी शनि म' इत्यनेकार्थवचनात् आरः- शनिः, तद्वत् या-परिवारादिसम्पत् , यस्य सः आरयः-शनिसदृशलक्ष्मीकः, तस्य सम्बो० हे आरय ! भवान् 'कः सूर्यमित्रे' त्यादिसुधाकलशवचनात् कः-सूर्यः, तथा 'थः पुंस्यूमिगिरीन्दु'ष्वितिनानार्थरत्नमालावचनात् थः-चन्द्रः, समाहारे कथं, तत् परि-सामस्त्येन, ग्रह-उपरागस्तस्य आरम्भः-प्रारम्भो यत्र तत् परिग्रहारम्भं कर्तुं ईश्वरो-विभुरस्ति । भवान् किंवि० ? अकं-दुःखं करोति णिजिक्विपि अग्-दुःखकृत् यदुक्तं-भौम-मन्दार्क-भोगीन्द्राः प्रकृत्या दुःखदा नृणा' मिति । भवान् पुनः किंवि०? ई-भूमिः, तस्याः यु:भीमो भीमसेनवत् मृगयुः, व्यथकत्वात् स ईयुः। भवान् पुनः किंवि० ? पा-प्रौढा, उणादिवचनात् रा-दीप्तिस्तया अन्कृष्णतुल्यः, श्यामत्वात् सः परान् । स्वयमात्मना, न दरिद्रः-न
For Private And Personal Use Only

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120