Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशनिवर्णनम् ] ईकारोऽब्जदले लक्ष्म्या मिति नानार्थरत्नमालातः ई-अब्जदलं, तद्वत् 'उकारः क्षत्रिये नेत्र' इति नानार्थरत्नमालातः उनॆत्रं यस्य स युः । नेत्रमित्यत्रैकत्वं शुक्रस्य नेत्रकतासूचकं लोकप्रसिद्धेरिति । 'इ' इति सम्बोधनेऽव्ययः । अरं-अत्यर्थमित्यर्थः ॥७५।।
शुक्र व्यावयं शनि वर्णयति
परिग्रहा रम्भमग्नास्ताऽऽर ! येयुः कथं प! रान् । स्वयं दरिद्रोनपरमीश्वरीकर्तुमीश्वरः ॥७६॥
व्याख्या-ता-विमानपरिवारादिश्रीः, तया युक्तः ‘आरो रीरी शनीभौम' इत्यनेकार्थवचनात् आरः-शनिः, तस्य सम्बो० हे तार-हे शने ! हे य-हे यम! क्रूरत्वात् । हे प-हे प्रौढ ! सूर्यसुतत्वात् । भवान् भ-राशिस्तत्र मग्नो-निमग्न आस्ते-तिष्ठति विपि भमग्नाः-राशिस्थितः सन् — रस्तीक्ष्णे वैश्वानरे नर' इति सुधाकलशवचनात् रं-नरं, दरिद्रोनपरं कर्तुं कथं ईश्वरो भवति-प्रभूर्भवतीत्यर्थः । दरिद्रा-निःस्वाः, तथा ऊनाः कुटुम्बादिहीनाः, तेषां मध्ये परः-उत्कृष्टः, सर्वथा दरिद्रः सर्वथा ऊनश्च तं दरिद्रोनपरं रं-नरं कर्तुं कथं ईश्वरो भवति । भवान् किंवि० ? परि-समन्तात् , प्रहेषु असते-सर्वग्रहोपरिवर्ति (विमान ) त्वात् दीप्यते क्विपि परिग्रहाः । भवान् पुनः किंवि० ? ई-भूमिः, तस्याः युः-भीमो भीमसेनवत् मृगयुः-वधक इत्यर्थः, स ईयुः । उणादिवचनात् रादीप्तिः, तया अ:-कृष्णः, स इवाचरति शतरि अन्, सन्धौकृते रान्-दीप्त्या कृष्णतुल्यः, श्यामत्वादित्यर्थः । ई-श्रीः, तया
For Private And Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120