Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुरु-शुक्रवर्णनम् ] ___ व्याख्या-परिग्रहाणां-दाराणां, आरम्भः-विवाहरूपोद्यमो यस्मात् सः परिग्रहारम्भः, तस्य सम्बो० हे परिग्रहारम्भ ! । गुरुवारे विवाहः स्यात् । यदुक्तं-'गुरुर्विवाहे गमने च शुक्र' इति । मग्नं भावे क्तप्रत्यये मजनं नाम प्रथमः शृङ्गारः, उपलक्षणत्वादन्येऽपि पञ्चदश शृङ्गारा ज्ञेयाः, तैः असते-दीप्यते क्विाप मग्नाः, ईदृशी 'तारा बुद्धदेव्यां सुरगुरुस्त्रिया'मित्यनेकार्थवचनात् तारानाम्नी सुरगुरुस्त्री यस्य सः मग्नास्तारः-सुरगुरुः, तस्य सम्बो० हे मग्नास्तार-हे बृहस्पते ! । हे प्र-हे प्रौढ ! ग्रहेषु गुरुत्वात् । भवान् ‘ईकारोऽब्जदले लक्ष्म्यां वाण्या मिति नानार्थरत्नमालावचनात् ई-वाणी, तया या-वाण्या, परं-अन्यं, ई-वाणी, तस्या ईश्वराः-पतयः ते ईश्वराः-वागीश्वरा इत्यर्थः । अवागीश्वरान् ईश्वरीकर्तु-वागीश्वरीकतुं ईश्वरः-प्रभुः स्यात् । स्वयमात्मनेत्यर्थः । भवान् किं कुर्वन् ? ई-श्रीः, तया युक्ता या ऋ-भूमिः, तस्याः युःश्रीभूमेः, कं-सुखं, थो-भीत्राणं समाहारे कथं-सुखभीत्राणं 'राङ्क दाने' शतरि रान्-दददित्यर्थः । भवान् किंवि० ? पुमानत्यन्तमेधावी त्रयाणामश्नुते फलम् । अल्पायुरनपत्यो वा दरिद्रो वा न संशयः ।।१।। इतिवचनात् अत्यन्तमेधावी दरिद्रो भवतीत्यत आह-भवान् न दरिद्रः -न निःस्वः । 'ई' इति सम्बोधनेऽव्ययः ।।७४॥
बृहस्पतिं व्यावर्ण्य शुक्र वर्णयति
परिग्रहाऽरम्भ ! मनास्तारये युः कथं परान । स्वयंद! रिद्रो न परमीश्वरीकर्तुमीश्वरः ॥७५।।
For Private And Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120