Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ [ शतार्थविवरणे ___व्याख्या-'पल गतौ' इप्रत्यये भ्रमिवत् पलिशब्दोऽपि सिद्धः। ततो रलयोरैक्यात् पलिगमनं, तत्र ग्रहो-ग्रहणं, यस्य स पलिग्रहः, तस्य सम्बो० हे पलिग्रह !। गमने शुक्र एव गृह्यते । यदुक्तं'गुरुर्विवाहे गमने च शुक्र' इति । 'भोऽलिशुक्रयो' रित्येकाक्षरवचनात् भा-शुक्रः, तस्य सम्बो० हे भ-हे शुक्र ! । ' सोमसोमजमन्दा हि भृगुपुत्रास्तु योषित' इतिवचनात् हे द-हे स्त्रीग्रह ! भवान् रलयोरैक्यात् 'पल गतौ' पलन्तीत्यचि पलाः तान् पलान्गमनकर्तृन् पुरुषान् ईश्वरीकर्तुं कथं न ईश्वरः ? अपि तु ईश्वर एवेत्यर्थः । भवान् किंवि० ? मग्नं भावे क्तप्रत्यये मजनं-स्नानं, तस्मात् असते-दीप्यते क्विपि आः, तद्भावः अस्ता-दीप्तिः सुभगतेति यावत् , तां अस्यति-क्षिपति क्विपि मग्नास्ताः। शुक्रवारे स्नाने कृते दुर्भगता स्यात् । यदुक्तं-'आदित्यादिषु वारेषु तापः कान्तिमतिर्धनं । दारिद्र्य दुर्भगत्वं च कामाप्तिः स्नानतः क्रमादिति । भवान् पुनः किंवि० ? 'रा दीप्ति'रित्युणादिवचनात् रया-दीप्या, स्वः-स्वकीयः ‘यो वातयशसोः पुंसी'ति विश्वलोचनात् यो-यशः, स इवाचरति शतरि स्वयन्-स्वयशस्तुल्य इत्यर्थः । 'कविरत्यन्त-धवल' इति दीप्त्या स्वयशःसदृश इत्यर्थः । स्वयमित्यस्य ‘यमा यपेऽस्य सूत्रेण स्वयन्निति सिद्धम् । एवं यथासम्भवमन्यत्रापि भाव्यमिति । भवान् पुनः किवि० ? ऋर्दानवमाता, तां स्वमातृत्वात् यन्ति-स्मरन्ति क्विपि रितो-दैत्याः, तेषु राजतेडप्रत्यये रिद्रः-दैत्यगुरुरित्यर्थः । भवान् पुनः किंवि० ? परः-शत्रुः, मः-चन्द्रो विद्यतेऽस्येति परमी-शुक्रस्य चन्द्रः शत्रुः। यदुक्तं'रवीन्दुभौमगुरवः ज्ञशुक्रशनिराहवः । स्वस्मिन् मित्राणि चत्वारि परस्मिन् शत्रवः स्मृताः ॥१॥ इति । भवान् पुनः किंवि० ? For Private And Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120