Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे
त्वात् सः मीश्वरीकर्तुः, तथा मः-चन्द्रः, तस्याऽपत्य मिः-बुधः, स चासौ ईश्वरो-विभुश्चः, सः मीश्वरः, मीश्वरीकर्तुश्वासौ मीश्वरश्चेति कर्मधारये भीश्वरीकर्तुमीश्वरः, तस्य सम्बो० हे मीश्वरीकर्तुमीश्वर !। चित्रत्वाद्विसर्गाभावः । हे रोहिण्यतिभक्तबुधविभो ! भवान् परिग्रहः-युवतिः कन्याराशिरित्यर्थः। 'पुंस्त्रीकरारा' इतिवचनाद्वा परिग्रहं-स्त्रीरूपं ईदृशं तथा चित्रत्वादनुस्वाराभावः 'रः तीक्ष्णे' इतिवचनात रं-तीक्ष्णं क्रूरं इत्यर्थः, रं-अक्रूरं इत्यर्थः, भंराशिः कन्याख्य तत् परिग्रहारम्भं कन्याभिधानं अक्रूरं राशि आर-प्राप्त इत्यर्थः । कोऽर्थः ? 'बुधः कन्यामिथुनयो'रितिवचनात् कन्यास्वामित्वात् । बुधः कन्याराशिं प्राप्त इत्यर्थः । भवान् किंवि०? ई-श्रीः, तया ऋ-भूमिः, तस्याः युः-श्रीभूमेः कं-सुखं, थो-भीत्राणं च समाहारे कथ-सुखभयत्राणं 'राङ्कदाने' शतरि रान्ददित्यर्थः । कोऽर्थः ? सौम्यग्रहत्वात् भूमेः सुखं भीत्राण च बुधो ददातीत्यर्थः। पुनः भवान् किंवि०? अकं-दुःखं करोति णिजि क्विपि अगू-दुःखकृत् , नकारस्य निषेधार्थत्वात् न अग्-अदुःखकृत् , सौम्यग्रहत्वात् । यदुक्तं- भौममन्दाभोगीन्द्राः प्रकृत्या दुःखदा नृणाम् ज्ञगुरुश्वेतकिरणशुक्राः सुखकराः सदा ' ॥१॥ इति । भवान् किंवि० ? ऋ-भूमिः, तस्यां यन्ति-गत्यर्थानां ज्ञानार्थत्वात् जानन्ति क्विपि इतो-ज्ञातारः, ईदृशाः रा-नराः, यस्मात् स रिद्रः । बुधवारे हि विद्यारम्भे नराः शास्त्रज्ञा भवन्तीत्यर्थः । स्वयमात्मनेत्यर्थः ॥७३॥ ___ बुधं व्यावर्ण्य बृहस्पतिं वर्णयतिपरिग्रहारम्भ ! मग्नास्तार ! येयुः कथंप ! रान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ।।७४॥
For Private And Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120