Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
[शतार्थविवरणे
चन्द्र ! भवान् स्वरुचा महेश्वरवर्णान् अन्यान् करोतीत्यर्थः । भवान् किंवि० ? तान्-तस्करान् अस्यति-क्षिपति क्विपि ताः । भवान् किंवि० १ ई-कामः, तस्य युः-भीमो भीमसेनवत् मित्रयुः-मित्रवत्सल इत्यर्थः । स इयुः । कथमित्यव्ययः सम्भवे । स्वयमात्मनेत्यर्थः ।।७१।।
अर्थचतुष्केण चन्द्रं व्यावर्ण्य मङ्गलं वर्णयतिपरिग्रहारम्भमनास्तार ! येयुः कथं परान् । स्वयं दरिद्रोनपरमीश्वरी कर्तुमीश्वरः ॥७२॥
व्याख्या-' आरो वक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुज' इत्यभिधानचिन्तामणिवचनात् आरो-मङ्गलः, तस्य सम्बो० हे आरहे मङ्गल ! । 'नकारो जिनपूज्ययो रितिविश्वलोचनतः ना-पूज्या, तथा असते-दीप्यते क्विपि आः, ईदृशी ‘ता महीलक्ष्म्यो रितिमहीपवचनात् ता-भूमिः स्वजननी, यस्य स नास्तः, तस्य सम्बो० हे नास्त ! । अथवा नेषु-पूज्येषु, आः-दीप्यमाना सा नाः पूज्यतमेत्यर्थः, ईदशी ता-भूमिर्यस्य स नास्तः, तस्य सम्बो० नास्त !। ये पुरुषाः परान्वैरिणः, य(अ)युः-प्राप्ताः, गेधुमिति गम्यते । यत्तदोर्नित्यसम्बन्धात् तेषां भवान् ‘परिभूमि 'रित्युणादिवचनात् परौ-भूमौ, परिसमन्ताद्वा — ग्रहो ग्रहणनिर्बन्धानुग्रहेषु रणोद्यमे ' इत्यनेकार्थवचनात् ग्रहो-रणोद्यमः, तस्य — आरम्भस्तु वधदर्पयोः त्वराया'मित्यनेकार्थात् आरम्भः-त्वरा, तं परिग्रहारम्भ-भूमौ रणोद्यमे त्वरां कतुं ईश्वरःप्रभुः, स्वयमात्मनेत्यर्थः । परिग्रहारम्भं किंवि० ? दरिद्राः-दुर्गताःनिःश्रीका इत्यर्थः। तथा ऊना:- कुटुम्बाद्यपरिपूर्णाः, ईदृशाः पराःवैरिणो यत्र सः तं दरिद्रोणपरं । कोऽर्थः ? भौमवारे युद्धं प्रोक्तं ।
For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120