Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६८ [ शतार्थविवरणे उ:- शङ्करः, स युः श्रीशङ्करतुल्य इत्यर्थः । यथा लोके शङ्करोऽपि सर्वं करोति तथा त्वमपीति तदुपमा । 'इ' इति सम्बोधनेऽव्ययः । कथमिति सम्भवेऽव्ययः ॥ ६५ ॥ Acharya Shri Kailassagarsuri Gyanmandir ग्रहं वर्णयित्वा ग्रहायणीं वासरमणिं वर्णयतिपरिग्रहारम्भ ! मग्नास्तारये युः क ! थं प! रान् । स्वयं दरिद्रोनपरमीश्वरी कर्तुमीश्वरः ||६६ || । व्याख्या-परि-समन्तात् चतुर्दिक्षु, ग्रहेषु चन्द्रादिषु, अरं- अत्यर्थ भा-प्रभा यस्य स परिप्रहारम्भः, तस्य सम्बो० हे परिग्रहारम्भ ! भावे क्तप्रत्यये मग्नं-मज्जनं स्नानमित्यर्थः, तस्य असते- दीप्यते क्विपि आः, तद्भावः अस्ता - दीप्तिर्यस्मात् स मग्नास्तः, तस्य सम्बो० हे मनात हे स्नानशुद्धिकारक ! | सूर्योदय एवं स्नानस्यापि - शुद्धत्वापत्तिः, न तु रात्रौ । यदुक्तं च- 'नैवाहूतिर्न च स्नानं, न श्राद्धं देवतार्चनं । दानं वा विहितं रात्रौ भोजनं तु विशेषत' ॥ १ ॥ इति । आ - समन्तात्, 'रा दीप्तिरित्युणादिवचनात् रा-प्रभा, तया आरया आदीप्त्या हे प- हे प्रौढ ! | 'कः सूर्यमित्रे' त्यादिवचनात् हे क- हे सूर्य ! भवान् दरो-भयं विद्यते येषां ते दरिणः - भययुक्ताः, शाये नणयौरे क्यात् द्रोणाः- काकाः तेषां परः- शत्रुः स दरिद्रोणपरः-धूक इत्यर्थः तं दरिद्रोणपरं घूकम् । न विद्यते या श्रीर्यस्य सः अयः - निःश्रीक इत्यर्थः, सु-अतिशयेन, अयः स्वयः तं स्वयं सर्वथा निःश्रीकं कर्तुं विधातुं, शु- परमः, अरिः- शत्रुः, तद्वत् ईयते - गच्छति क्विपि सः वरी:- उत्कृष्टशत्रुतुल्यो वर्तते । चित्रत्वाद्विसर्गाभावः । कोऽथ : ? धूकं निःश्रीकं कर्तुं हे सूर्य ! भवान् परमशत्रुतुल्यो ऽस्ती - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120