Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री निशाकरवर्णनम् ] ७१ सुखकरा सदे तिवचनात् चन्द्रः सुखकृदित्यर्थः । ईश्वरः पुनः ? असते - दीप्यते अस्ता किंवि० क्विपि आः - तद्भावः - दीप्तिरित्यर्थः, आ-समन्तात्, अस्ता - दीप्तिर्यस्य स आस्तः, ईदृश: ' आ विधातरि मन्मथ ' इतिमहीपवचनात् आ-मन्मथो यस्मात् स आस्ताः । चन्द्रात् कामो हि दीप्यत इति भावार्थ: । ईश्वरः श्रीचन्द्रः पुनः किंवि० ? रा-दीप्तिस्तया रया - दीप्या, ईश्रीः, तया - युक्तः उः - शङ्करः, स युः । श्वेतवर्णत्वात् दीप्त्या श्रीशङ्करतुल्य इत्यर्थः । शङ्करोऽपि श्वेतवर्णोऽस्तीति तदुपमा । ईश्वरः पुनः किंवि० ? परः - प्रकृष्टः, जनानां प्रियत्वात् यः 'आ विधातरि मन्मथ ' इति : - मन्मथः, तद्विषये अः - कृष्णः, स इवाचरति - तन्निःपादकत्वात् तत्तुल्यो भवति शतरि अन् स परान् - प्रकृष्टमन्मथस्य जनने कृष्णतुल्य इत्यर्थः । ईश्वरः श्रीचन्द्रदेव पुनः किंवि० ? ईश्वरो महादेवः, आधारतया विद्यते यस्येति स ईश्वरी । 'ई' पादपूरणेऽव्ययः । कथमिति सम्भवेऽव्ययः ||६८ || परिग्रहारम्भमग्नास्तारये युः कथं प ! रान् । स्वयं द ! रिद्रोन परमीश्वरीकतुमीश्वरः ॥ ६९ ॥ व्याख्या- 'तार कोडिकोडीण' मितिवचनात् ताराणां अनेक कोटिकोटीनां या ई-श्रीः सम्पदित्यर्थः । तया तारया ताराणां सम्पदा - प्रौढ ! | ताराणामाधिपत्यं चन्द्रस्यैवास्तीति हे चन्द्र ! | हे द ! | ' सोमसोमजमंदा हि भृगुपुत्रास्तु योषित' इतिवचनात् ' हे योषित् - हे स्त्रीग्रह ! भवान् 'र: तीक्ष्णे वैश्वानरे नर' इतिवचनात् रान् - नरान् परं - प्रकृष्टं यथा स्यात्तथा ईश्वरीकर्तुं - 'ईश्वरः स्वामिनि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120