Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
[ शतार्थविवरणे
दुःखकृदित्यर्थः । भवान् पुनः किंवि० ? ना ‘जीवमङ्गलमार्तण्डानुशन्ति पुरुषान् बुधाः' इतिवचनात् ना-पुरुष इत्यर्थः। भवान् पुनः किंवि० ? अस्तं-अस्तादि, असते - गच्छति क्विपि अस्ताः । भवान् पुनः किंवि० ? ' ईर्भुवि श्रिया मिति ई - भूमिः - जगदितियावत् , तस्याः · उकारः क्षत्रिये नेत्र' इतिवचनात् उ:- नेत्रतुल्य इत्यर्थः । स युः- जगच्चक्षुरित्यर्थः। 'ऋ पृथिव्यां देवमातरी'तिवचनात् ऋ-भूः तस्यां एति-चलति क्विपि रित्-परिभ्रमणशीलः चलज्योतिश्चक्रान्तर्वर्तीत्यर्थः । 'शुर्निशाकर' इत्येकाक्षरवचनात् शुःचन्द्रः, तस्य ‘रीभ्रम' इतिवचनात् न विद्यते रीभ्रंमो यत्र सा अरी- भ्रान्तिरहिता, ईदृशी ई - श्रीः तेजोरूपा यस्मात् स श्वरीः । चन्द्रो हि स्वीये तेजसि क्षीणे सूर्यात्तेजो गृह्णातीति भावार्थः । चित्रत्वाद्विसर्गाभावः। 'ई' इतिपादपूरणेऽव्ययः। स्वयमात्मना ॥६५॥
अर्थद्वयेन दिवाकर व्यावर्ण्य निशाकरं वर्णयति - परिग्रहारम्भमग्नास्ता रयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥६८।।
व्याख्या -ई-श्रीः, तया युक्तः ‘शुर्निशाकर' इत्येकाक्षरवचनात् शुः-निशाकरः, स चासौ अरोऽमर्त्यश्च ईश्वरः-श्रीचन्द्रदेवः, परि-समन्तात् , ये ग्रहा-मङ्गलादयः नक्षत्राणि वा, तेषां 'आरम्भस्तु वधदर्पयो रिति आरम्भो-दर्पः, तं परिग्रहारम्भ, परं प्रकृष्टं, कर्तुं न दरिद्रः-लक्षणया श्रेष्ठ इत्यर्थः । स्वयमात्मनेत्यर्थः । अकं-दुःखं करोति णिजि क्विपि अग्-दुःखकृत् , नकारस्य निषेधार्थत्वात् , न अग-अदुःखकृदित्यर्थः । 'ज्ञगुरुश्चेतकिरणशुक्राः
For Private And Personal Use Only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120