Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री साधारणनृपवर्णनम् ] ६५ व्याख्या- ' ता महीलक्ष्म्यो ' रित्यनेकार्थात् ता-मही, तया राजते डप्रत्यये तारः - नृपः, 'परिभूमि 'रित्युणादिवचनात् परिभूमिः, तस्याः तस्याः ग्रहो - ग्रहणं, तस्य आरम्भ-उद्यमस्तं परिप्रहारम्भं, तथा यु: - श्रीभूमेः कं सुखं, थो-भीत्राणं, समाहारे कथं - सुखभीत्राणं पर-प्रकृष्ट, कर्तुं ईश्वरः - प्रभुः । तथा परान् - अन्यान्, सु-अतिशयेन, अयन् - गत्यर्थानां ज्ञानार्थत्वात् स्वयन्उपलक्षयन् ईदृशो नृपः दरिद्रो न भवति । चकाराध्याहारात् ईश्वरीभवति । ई-श्रीश्व ईश्वरः - कामश्च ईश्वरौ तौ विद्ये यस्मिन् ईश्वरी । नृपो हि ' शठदमन मशठपालन' मित्यादिचिह्नधरः अर्थकामवान् भवतीत्यर्थः । तारः किंवि० ? अगन्ते- कुटिलं गच्छन्ति क्विपि अगः - कुटिलगतयो दुष्टा इत्यर्थः तेषां नो - बन्धः, तेन असते - दीप्यते क्विपि अग्नाः- दुष्टबन्धेन दीप्तिमान् भवतीत्यर्थः । 'ए' इतिपादपूरणेऽव्ययः ||६२ || I परिग्रहारम्भमग्नास्ता रये युः कथं परान । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ||६३ || व्याख्या- 'ईर्भुवि श्रिया'मिति महीपवचनात् ई-भूमिः, तस्या ईश्वरः पतिः, स ईश्वरः - भूमीश्वरः परान् - अन्यान्, पर-प्रकृष्टं यथा स्यात्तथा, ईश्वरीकर्तुं - भूमीश्वरीकर्तुं न दरिद्रः, नकारस्य निषेधार्थत्वान्न दरिद्रः अदरिद्रः । अथवा ' रः तीक्ष्णे वैश्वानरे नर ' इतिवचनात् रो-मर्त्यः, नकारस्य निषेधार्थत्वात् न र:- अमर्त्यः इत्यर्थः । ईश्वरः किंवि० ? ' परिभूमि' रित्युणादिवचनात् परिभूमिः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120