Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री अकबरनृपवर्णनम् ]
६३
,
स्नानं तद्वत् अस्तः- क्षिप्तः त्यक्त इत्यर्थः, रलयारेक्यात आलयो गृहं येन सः मग्नास्तालयः । अतः त्यक्तमज्जनत्वात् त्यक्तत्वात् अनगार इत्यर्थः तस्मिन् ममास्तालये जातेरै क्यात् अनगारेष्वित्यर्थः । हे क - मित्र ! कस्याः ? यु: - श्रीभूमेः, ई श्रीः, तथा युक्ता 'ऋ पृथिव्यां देवमातरी'ति महीपवचनात् ऋर्भूमिः, तस्याः, षष्ठ्यां युरिति सिद्धम् । हे प- हे प्रौढ ! संसकारं अवति - रक्षति क्विपि सूः, ईदृशो यः एकारः, तस्मात् अकारेण युक्तो नकारो यस्य नाम्नि सः स्वयन् सेन इत्यर्थः, भामा सत्यभामावत सेन :- विजयसेन इत्यर्थः, तस्य सं० हे स्वयन्- हे विजयसेन ! दरितान् चकितान् करोति णिजि raft दरित, ईदृशो यो रः- स्मरः तेन ऊनो-हीनो यः सः दरिद्रोनः, तस्य सं० दरिद्रोन - भयकृत्स्मररहित ! त्वं ई: - श्रीः कर्तुं ईश्वरः - प्रभुरित्यर्थः । क्व ? शसयोरैक्यात् स्वः - भवान्तरे इत्यर्थः । ई इत्यत्र चित्रत्वाद्विसर्गाभावः । त्वं किं कुर्वन् ? 'थो भवेद्भयरक्षणे भूधरे च तथा भारे ' इति सुधाकलशवचनात् थ - भार', 'राङ्क दाने क्वचिदादाने पी'ति वचनात् शतरि रान् - आददानः बिभ्रदित्यर्थः
किंवि० ( हरिः ) चन्द्र इतिवचनात् हरे: - चन्द्रस्य - चन्द्रगच्छस्यायं - हारः, तं हार - चन्द्रगच्छसम्बन्धिनमित्यर्थः । थ पुनः किंवि० ? पर - प्रशस्तं, न तु ऐन्धनादिभारवद्प्रशस्तम् । 'ई' इत्यव्ययः सम्बो० । स्वयमित्यत्र ' यमा यपेऽस्ये 'ति सूत्रेण स्वयन् इनिसिद्धम् ||६० ||
श्रीहीरविजयसूरीन्द्र व्यावर्ण्य तत्प्रतिपत्तिकर श्रीअकबरनृपं वर्णयति -
For Private And Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120