Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे र्थानां सेवनार्थत्वात् सेवे इत्यर्थः । हे स्व-हे आत्मीय ! हे प-हे प्रौढ ! हे क-मित्र ! यं सूरीन्द्र अहं 'राङ्क आदानेपी'ति वचनात् शतृप्रत्यये रान्-गृहणन् अङ्गीकुर्वन् , ई-श्रीः, तया युक्ता ऋ-भूमिः, तस्याः युः-श्रीभूमेः, ईश्वरो-नाथो भवामि 'यत्र नान्यक्रियापदं तत्रास्ति भवतीति क्रियापदं प्रयोक्तव्य मिति। यं किंवि०? दरिद्रा-निःस्वाः तथा ऊना:-कुटुम्बाद्यपरिपूर्णाः, ईदृशाः परा:-प्रतिपक्षाः यस्य सः दरिद्रोनपरः तं दरिद्रोनपरम् । यं पुनः किंवि०? ईश्वरः स्वामिनि शिवे मन्मथ' इतिवचनात् ईश्वरः-कामोऽस्यास्तीति ईश्वरी-कामी, तथा इ:-कामः, तौ ‘कर्तुः कर्मकर' इत्युणादिवचनात् कर्तृ-कर्मकरौ यस्य सः तं ईश्वरीकर्तुं । यं किंवि० ? थं-भीत्राणमित्यर्थः । अहं किंवि० ? भः-प्रभावः, तत्र मग्नः सः भमग्नः-प्रभावयुक्त इत्यर्थः, अस्तं-मरणं, अस्यति-क्षिपति क्विपि अस्ताः-मृत्युभयरहित इत्यर्थः, भमग्नश्चासौ अस्ताश्च भमग्नास्ताः। अहं पुनः किंवि० ? ए:-विष्णुस्तद्वत् मिथ्यात्वहेतुत्वात् हेयतया उ:-शङ्करो यस्य सः अयुः ।।५९।। तत्पट्टपूर्वाद्रिप्रभाकरं श्रीविजयसेनसूरीन्द्र वर्णयति । परिग्र! हारम्भ ! मग्नास्तारये युः कथं प! रान् । स्वयं दरिद्रोन ! परमीश्वरीकर्तुमीश्वरः ॥६०॥ व्याख्या-'परिभूमिरि'त्युणादिवचनात् परि-भूमिं गृह्णाति-दुर्गति कूपे पतन्ती समुद्धरतीति डप्रत्यये परिग्रः, तस्य सं० हे परिग्रजगदुद्धारक ! भातीति डप्रत्यये भः-राजमानः, तस्य सं० हे भहे राजमान ! अरं-अत्यर्थ । क्व ? मग्नं भावे क्तप्रत्यये मज्जनं, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120