Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहीरविजयसूरीन्द्र-विजयसेनसूरीन्द्रवर्णनम् ] ६१ ग्रहो यः 'कामग्गहो दुरप्पा' इति वचनात् सः परिग्रहः, ईदृशः यः ‘आ विधातरि मन्मथ' इति महीपवचनात आ-कामः, तस्य 'आरम्भस्तु वधदर्पयो' रिति आरम्भो-वधः, तत्र मग्ना-आसक्ताः तान् परिग्रहारम्भमग्नान् । चित्रत्वादनुस्वाराभावः । ऊन् पुनः किंवि०? आन्-'एकमूर्तिस्त्रयो देवा' इतिवचनात् कृष्णानित्यर्थः । त्वं किंवि० युः । व्याख्या तु प्राग्वत् । त्वं किंवि०? दं-कलत्रं, तदेव 'ऋ पृथिव्या मिति महीपवचनात् ऋ-भूमिः स्थानकमित्यर्थः, तां एति-गच्छति क्विपि दरित्-स्त्रीस्थानकयायीत्यर्थः । अपरं अधुनार्थे विश्वकोषेऽस्ति । कथमिति सम्भवेऽव्ययः । 'स्वराः सम्बोधनभर्त्सनानुकम्पापूरणनिषेधेष्विति गणपोठविवरणे ॥५८।।
अर्थत्रयेण कामं व्यावर्ण्य तज्जेतारं श्रीहीरविजयसूरीन्द्रं वर्णयति परिग्रहारम्भमग्नास्ता रयेऽयुः क ! थं प! रान् । स्व ! यं दरिद्रोनपरमीश्वरीकर्तुमीश्वरः ।।५९।।
व्याख्या-रलयोरैक्यात् ' पल गतौ' इत्यस्य ' इकि स्तिवि' ति इप्रत्यये पलिभ्रमिः भवभ्रमणमिति यावत्, ग्लायति-हस्वीकरोति डप्रत्यये पलिग्लः । तथा आ-आकारस्तं असते-गच्छति स्वरक्रमात् यः क्विपि आः-इकार इत्यर्थः, ह इति वर्णे असौ इकारो यस्य स हाः। अत्र इकारस्य ह्रस्वत्वं ह्रस्वेकारस्य दीर्घताकरणार्थ, तेन हा इत्यस्य ही इति सिद्धं, ईदृशो रकारो यस्य नाम्नि सः हारः-हीर इत्यर्थः, भीमो भीमसेनवत् हीरः-हीरविजयसूरीन्द्रः, पलिग्लश्चासौ हारश्च पलिग्लहारः तं पलिग्लहारं-भवभ्रमणहर हीरविजयसूरीन्द्र', अहं रये-' परस्त्रीगमनं त्यजेदि'त्यादौ गमना
For Private And Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120